________________
कन् (निपातनम्)
पञ्चमाध्यायस्य द्वितीय पादः
(३) अनुकाभिकाभीकः कमिता । ७४ ।
प०वि० - अनुक - अभिक- अभीक : १ । १ कमिता १ । १ ।
स०-अनुकश्च अभिकश्च अभीकश्च एतेषां समाहारः - अनुकाभिकाभीक: (समाहारद्वन्द्वः) । अत्र समाहारद्वन्द्वे 'व्यत्ययो बहुलम्' (३।१।८५) इति लिङ्गव्यत्ययेन पुंस्त्वं वेदितव्यम् ।
अनु०-कन् इत्यनुवर्तते ।
अन्वयः - अनुकाभिकाभीका: शब्दा: कमिता इत्यस्मिन्नर्थे कन्-प्रत्ययान्ता निपात्यन्ते ।
उदा०- ( अनुक) अनुकामयते - अनुकः । (अभिक: ) अभिकामयतेअभिकः । ( अभीक: ) अभिकामयते - अभीकः ।
१६६
आर्यभाषाः अर्थ- (अनुकाभिकाभीक: ) अनुक, अभिक, अभीक शब्द (कमिता) कामुक अर्थ में (कन्) कन् - प्रत्ययान्त निपातित हैं ।
उदा० - अनुकामना करनेवाला- अनुक। अभिकामना करनेवाला-अभिक अथवा अभीक (कामुक) ।
सिद्धि - (१) अनुकः । अनु+सु+कन् । अनु+क। अनुक+सु । अनुकः ।
यहां प्रथमा-समर्थ' 'अनु' शब्द से कमिता- अर्थ में इस सूत्र से 'कन्' प्रत्यय निपातित है। ऐसे ही 'अभि' शब्द से अभिकः ।
कन्
(२) अभीकः । यहां 'अभि' शब्द को दीर्घत्व भी निपातित है । शेष कार्य पूर्ववत् है ।
अन्विच्छति - अर्थप्रत्ययविधिः
(१) पार्श्वेनान्विच्छति । ७५ । प०वि० पार्श्वेन ३ । १ अन्विच्छति क्रियापदम् ।
अनु०-कन् इत्यनुवर्तते। अत्र 'पार्श्वेन' इति तृतीयानिर्देशात्
तृतीयासमर्थविभक्तिगृह्यते ।
अन्वयः - {तेन} पार्श्वाद् अन्विच्छति कन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org