SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीय पादः ૧૬૭ सिद्धि-(१) ब्राह्मणकः । ब्राह्मणस्य+जस+कन्। ब्राह्मण+क। ब्राह्मणक+सु। ब्राह्मणकः। यहां प्रथमा-समर्थ, आयुधजीवीवाची ब्राह्मण' शब्द से सप्तमी-विभक्ति के अर्थ में तथा संज्ञाविषय में कन्' प्रत्यय निपातित है। "ब्राह्मणशब्दादायुधनीव्युपाधिकात् प्रथमान्तात सप्तम्यर्थे कन् प्रत्ययः” इति पदमञ्जर्यां पण्डितहरदत्तमिश्रः। (२) उष्णिका। अन्न+सु+कन्। उष्ण+कन्। उष्णक+टाप् । उष्णिका+सु। उष्णिका। यहां प्रथमा-समर्थ, अल्पवाची 'अन्न' शब्द से सप्तमी-विभक्ति के अर्थ में तथा संज्ञाविषय में कन्' प्रत्यय और उष्ण आदेश निपातित हैं। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टा (४।१।४) से 'टाप्' प्रत्यय होता है। “अन्नशब्दादल्पत्वोपाधिकात् सप्तम्यर्थ एव कन् प्रत्यय:, अन्नशब्दस्योष्ण्यादेश:” इति पदमञ्जर्यां पण्डितहरदत्तमिश्रः । कारि-अर्थप्रत्ययविधि: कन् (१) शीतोष्णाभ्यां कारिणि ।७२। प०वि०-शीत-उष्णाभ्याम् ५ ।२ कारिणि ७१। स०-शीतं च उष्णं च ते शीतोष्णे, ताभ्याम्-शीतोष्णाभ्याम् (इतरेतरयोगद्वन्द्व:)। अनु०-कन् इत्यनुवर्तते। अत्र शीतोष्णशब्दयो: क्रियाविशेषणत्वाद् द्वितीयासमर्थविभक्तिर्गृह्यते। अन्वय:-(तत्) शीतोष्णाभ्यां कारिणि कन्। अर्थ:-{तत्} द्वितीयासमर्थाभ्यां शीतोष्णाभ्यां प्रातिपदिकाभ्यां कारिणि अर्थे कन् प्रत्ययो भवति। उदा०- (शीतम्) शीतं करोति-शीतक: । अलस:, जड इत्यर्थः । (उष्णम्) उष्णं करोति-उष्णकः । शीघ्रकारी, दक्ष इत्यर्थः । अत्र शीतोष्णशब्दौ मन्दशीघ्रपर्यायौ वेदितव्यौ । आर्यभाषा: अर्थ-तित्} द्वितीया-समर्थ (शीतोष्णाभ्याम्) शीत, उष्ण प्रातिपदिकों से (कारिणि) करनेवाला अर्थ में (कन्) कन् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy