________________
पञ्चमाध्यायस्य प्रथमः पादः
आर्यभाषाः अर्थ- (कम्बलात्) कम्बल प्रातिपदिक से (च) भी (प्राक् क्रीतात्) पूर्व-क्रीतीय अर्थों में (यत्) यत् प्रत्यय होता है (संज्ञायाम् ) यदि वहां संज्ञा अर्थ की प्रतीति हो ।
उदा० - कम्बल के लिये हितकारी - कम्बल्य ऊर्णा पलशत (सौ पल= ५ सेर ऊन) । सिद्धि-कम्बल्यम् । कम्बल+ ङे+यत् । कम्बल्+य। कम्बल्य+सु । कम्बल्यम् । यहां चतुर्थी-समर्थ' 'कम्बल' शब्द से प्राक्-क्रीतीय हित-अर्थ में तथा संज्ञा अर्थ अभिधेय में इस सूत्र से 'यत्' प्रत्यय है । 'यस्येति च' (६ । ४ । १४८) से अंग के अकार का लोप होता है। यह 'छ' प्रत्यय का अपवाद है।
विशेषः कम्बल - उस समय पण्य कम्बल नाम से एक विशेष माप का बाजार में चालू कम्बल बनता था (५/२/४२ ) । उसमें जितनी ऊन लगती थी उसके लिये 'कम्बल्य' शब्द चालू था । पाणिनि ने कम्बल्य को तोल-विशेष का वाचक संज्ञा-शब्द कहा है (५1१1३) । काशिका में लिखा है कि सौ पल अर्थात् ५ सेर ऊन की संज्ञा कम्बल्य थी । पल = ४ तोले । १०० पल = ४०० तोले {५ सेर) (पाणिनिकालीन भारतवर्ष पृ० १३६ ) । यत्-विकल्पः
(४) विभाषा हविरपूपादिभ्यः ।४ ।
प०वि० - विभाषा १ । १ हविः - अपूपादिभ्यः ५ । ३ ।
स०-अपूप आदिर्येषां तेऽपूपादय:, हविश्च अपूपादयश्च ते हविरपूपादय:, तेभ्य:- हविरपूपादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । अनु० - प्राक् क्रीतात्, यत् इति चानुवर्तते ।
अन्वयः - हविरपूपादिभ्यः प्राक् क्रीताद् विभाषा यत् ।
अर्थ:-हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विकल्पेन यत् प्रत्ययो भवति, पक्षे च छः प्रत्ययो भवति ।
उदा०-(हविः) आमिक्षायै हितम् - आमिक्ष्यं दधि (यत्) । आमिक्षयं दधि (छ) । पुराडाशाय हिता: - पुरोडाश्यास्तण्डुलाः (यत्) । पुरोडाशीयास्तण्डुलाः (छ:)। (अपूपादि: ) अपूपेभ्यो हितम् - अपूप्यम् (यत्) अपूपीयम् ( छ : ) । तण्डुलेभ्यो हितम् - तण्डुल्यम् (यत्) । तण्डुलीयम् (छः ) ।
इत्यादिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org