________________
१६२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-नासिकाया नते नेर्बिडबिरीसचौ, संज्ञायाम्।
अर्थ:-नासिकाया नतेऽर्थे वर्तमानाद् नि-शब्दात् प्रातिपदिकात् स्वार्थे बिडज्-बिरीसचौ प्रत्ययौ भवत:, संज्ञाया विषये।
उदा०-नासिकाया नतम्-निबिडम् (बिडच्)। निबिरीसम् (बिरीसच्) । तस्य नतस्य संयोगान्नासिका पुरुषश्चापि तथा कथ्यते-निबिडा नासिका। निबिरीसा नासिका। निबिड: पुरुष:। निबिरीस: पुरुषः ।
आर्यभाषा: अर्थ-(नासिकाया:) नासिका के (नते) झुकने अर्थ में विद्यमान (ने:) नि' प्रातिपदिक से स्वार्थ में (बिडब्बिरीसचौ) बिडच् और बिरीसच् प्रत्यय होते हैं।
उदा०-नासिका का नत होना-निबिड (बिडच्) । निबिरीस (बिरीसच्)। उस नत (नीचे की ओर होना) के संयोग से नासिका और पुरुष भी तथा कहे जाते हैं-निबिडा नासिका। निबिरीसा नासिका (नकटी नाक)। निबिड पुरुष। निबिरीस पुरुष (नकटा नर)।
सिद्धि-(१) निबिडम् । नि+सु+बिडच् । नि+बिड। निबिड+सु । निबिडम्। यहां नासिका के नत अर्थ में विद्यमान नि' शब्द से स्वार्थ में बिडच्' प्रत्यय है।
(२) निबिरीसम् । यहां पूर्वोक्त नि' शब्द से 'बिरीसच्' प्रत्यय है। इनच्+पिटच्
(७) इनपिटच् चिकचि च।३३। प०वि०-इनच्-पिटच् १।१ चिकि-चि १।१ च अव्ययपदम् ।
स०-इनच् च पिटच् च एतयो: समाहार:-इनपिटच् (समाहारद्वन्द्वः)। चिकश्च चिश्च एतयो: समाहार:-चिकचि (समाहारद्वन्द्वः) ।
अनु०-नते, नासिकायाः, नेरिति चानुवर्तते । अन्वय:-नासिकाया नते नेरिनपिटच्, तस्य च चिकचि।
अर्थ:-नासिकाया नतेऽर्थे वर्तमानाद् नि-शब्दात् प्रातिपदिकात् स्वार्थे इनपिटचौ प्रत्ययौ भवतः, तयोः सन्नियोगेन च निशब्दस्य स्थाने यथासंख्यं चिकची आदेशौ भवतः।
उदा०-नासिकाया नतम्-चिकिनम् (इनच्+चिक:)। चिपिटम् (पिटच्+चि:)। तस्य नतस्य संयोगान्नासिका पुरुषश्चापि तथा कथ्यते-चिकीना नासिका, चिपिटा नासिका। चिकीन: पुरुषः, चिपिट: पुरुषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org