________________
१४६
पञ्चमाध्यायस्य द्वितीय पादः अनु०-तत्, अलङ्गामी इति चानुवर्तते। अन्वय:-तद् अध्वनोऽलङ्गामी यत्खौ।
अर्थ:-तद् इति द्वितीयासमर्थाद् अध्वन्-शब्दात् प्रातिपदिकाद् अलगामी इत्यस्मिन्नर्थे यत्खौ प्रत्ययौ भवत: ।
उदा०-अध्वानम् अलङ्गामी-अध्वन्य: (यत्) । अध्वनीन: (ख:)।
आर्यभाषा: अर्थ-(तत्) द्वितीया-समर्थ (अध्वनः) अध्वन् प्रातिपदिक से (अलङ्गामी) गमन सामर्थ्यवाला अर्थ में (यत्खौ) यत् और ख प्रत्यय होते हैं।
उदा०-अध्वा मार्ग को तय करने में समर्थ-अध्वन्य (यत्)। अध्वनीन (ख)। सिद्धि-(१) अध्वन्यः । अध्वन्+अम् यत् । अध्वन्+य। अध्वन्य+सु। अध्वन्यः ।
यहां द्वितीया-समर्थ 'अध्वन्' शब्द से अलंगामी अर्थ में इस सूत्र से यत्' प्रत्यय है। यहां ये च भावकर्मणोः' (६।४।१६८) से प्रकृतिभाव होता है अर्थात् 'नस्तद्धिते' (६।४।१४४) से प्राप्त अंग के टि-भाग (अन्) का लोप नहीं होता है।
(२) अध्वनीन: । अध्वन्+अम्+ख । अध्वन्+ईन। अध्वनीन+सु। अध्वनीनः ।
यहां 'आत्माध्वानौ खे' (६।४।१६९) से प्रकृतिभाव होता है, शेष कार्य पूर्ववत् है। छ:+यत्+खः
(३) अभ्यमित्राच्छ च।१७। प०वि०-अभ्यमित्रात् ५।१ छ ११ (सु-लुक्) च अव्ययपदम्।
स०-न मित्रमिति अमित्रम्, अमित्रम् अभि इति अभ्यमित्रम्, तस्मात्-अभ्यमित्रात् (नगर्भिताव्ययीभाव:) लक्षणेनाभिप्रती आभिमुख्ये (२।१।१४) इत्यव्ययीभावः।
अनु०-तत्, अलङ्गामी, यत्खौ इति चानुवर्तते। अन्वय:-तद् अभ्यमित्राद् अलङ्गामी छो यत्खौ च।
अर्थ:-तद् इति द्वितीयासमर्थाद् अभ्यमित्र-शब्दात् प्रातिपदिकाद् अलगामी इत्यस्मिन्नर्थे छो यत्खौ च प्रत्यया भवन्ति ।
उदा०-अभ्यमित्रम् अलङ्गामी-अभ्यमित्रीयः (छ:)। अभ्यमित्र्य: (यत्) । अभ्यमित्रीण: (ख:)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org