________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः-तेन, तम् द्विगोः कालाद् वर्षाद् निर्वृत्तम् अधीष्टो भृतो भूतो भावी वा खो लुक् च ।
अर्थ:-तेन इति तृतीयासमर्थात्, तम् इति च द्वितीयासमर्थाद् द्विगुसंज्ञकात् कालविशेषवाचिनो वर्ष - शब्दात् प्रातिपदिकाद् निर्वृत्तम् अधीष्टो भृतो भूतो भावी वा इत्येतेषु पञ्चस्वर्थेषु विकल्पेन खः प्रत्ययो भवति, पक्षे च यथाविहितं ठञ् प्रत्ययो भवति तयोश्च लुग् भवति ।
८६
उदा०-द्वाभ्यां वर्षाभ्यां निर्वृत्तम्-द्विवर्षीणं भवनम् (ख: ) । द्विवार्षिकं भवनम् (ठञ्) । द्विवर्षं भवनम् (लुक्) । द्विवर्षमधीष्टो द्विवर्षीणोऽध्यापकः (ख: ) । द्विवार्षिकोऽध्यापकः ( ठञ् ) । द्विवर्षोऽध्यापकः (लुक् ) । द्विवर्षं भृतो द्विवर्षीण: कर्मकर: (ख: ) । द्विवार्षिकः कर्मकर: (ठञ्) । द्विवर्षः कर्मकर: (लुक्) । द्विवर्षं भूतो द्विवर्षीणो व्याधिः ( ख ) । द्विवार्षिको व्याधिः (ठञ्) । द्विवर्षो व्याधिः (लुक्) । द्विवर्षं भावी द्विवर्षीणो यज्ञः (ख ) । द्वैवर्षिको यज्ञ: (ठञ् ) । द्विवर्षो यज्ञ: ( लुक्) । एवम् त्रिवर्षीणम्, त्रिवार्षिकम् / त्रैवर्षिकम्, त्रिवर्षम् ।
1
आर्यभाषाः अर्थ- (तेन) तृतीया - समर्थ तथा (तम्) द्वितीया - समर्थ (द्विगो: ) द्विगुसंज्ञक (कालात्) कालविशेषवाची (वर्षात्) वर्षान्त प्रातिपदिक से (निर्वृत्तम् अधीष्टो भृतो भूतो भावी) निर्वृत्त, अधीष्ट, भृत, भूत, भावी इन पांच अर्थों में (वा) विकल्प से (ख:) ख प्रत्यय होता है और पक्ष में यथाविहित ठञ् प्रत्यय होता है और उन दोनों प्रत्ययो का (लुक्) लोप (च) भी होता है।
उदा० - दो वर्ष में बनाया गया- द्विवर्षीण भवन ( ख ) । द्विवार्षिक भवन ( ठञ् ) । द्विवर्ष भवन (लुक्) । दो वर्ष तक अधीष्ट-द्विवर्षीण अध्यापक (ख) । द्विवार्षिक अध्यापक (ञ)। द्विवर्ष अध्यापक (लुक्) । दो वर्ष तक भृत- द्विवर्षीण कर्मकर ( ख ) । द्विवार्षिक कर्मकर (ठञ्) । द्विवर्ष कर्मकर ( लुक्) । दो वर्ष तक रही- द्विवर्षीण व्याधि (ख) द्विवार्षिक व्याधि (ठञ्) । द्विवर्ष व्याधि (लुक्)। दो वर्ष तक होनेवाला-द्विवर्षीण यज्ञ ( ख ) । द्वैवर्षिक यज्ञ (ठञ्) । द्विवर्ष यज्ञ (लुक्) । ऐसे ही - त्रिवर्षीण, त्रिवार्षिक, त्रिवर्ष ।
सिद्धि - (१) द्विवर्षीणम् । द्विवर्ण+टा/अम्+ख । द्विवर्ष् +ईन । द्विवर्षीण+सु । द्विवर्षीणम् ।
यहां तृतीया/द्वितीया-विभक्ति - समर्थ, द्विगुसंज्ञक, कालविशेषवाची, वर्षान्त द्विवर्ष' शब्द से निर्वृत्त आदि पांच अर्थों में इस सूत्र से 'ख' प्रत्यय है । 'आयनेय०' (७/१/२) से 'ख्' के स्थान में 'ईन्' आदेश और 'अट्कुप्वाङ्०' (८ ।४ ।१) से णत्व होता है ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only