________________
५४२
५४२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-छन्दसि तत्र सभाया: साधुढः ।
अर्थ:-छन्दसि विषये तत्र इति सप्तमीसमर्थात् सभा-शब्दात् प्रातिपदिकात् साधुरित्यस्मिन्नर्थे ढ: प्रत्ययो भवति ।
उदा०-सभायां साधु:-सभेय: । 'सभेयो युवाऽस्य यजमानस्य वीरो जायताम्' (यजु० २२ ।२२)।
आर्यभाषा: अर्थ- (छन्दसि) वेदविषय में (तत्र) सप्तमी-समर्थ (सभाया:) सभा प्रातिपदिक से (साधु) निपुण/योग्य अर्थ में (द:) ढ प्रत्यय होता है।
उदा०-सभायां साधुः-सभेयः । सभा में जो निपुण/ योग्य है वह-सभेय। सभेयो युवाऽस्य यजमानस्य वीरो जायताम्' (यजु० २२ १२२)। इस यजमान का वीर युवा सभेय (सभा में निपुण/योग्य) हो। ..
वासि-अर्थप्रत्ययविधिः यथाविहितम् (यत्)
(१) समानतीर्थे वासी।१०७। प०वि०-समान-तीर्थे ७।१ वासी ११ ।
स०-समानं च तत् तीर्थम्-समानतीर्थम्, तस्मिन्-समानतीर्थे (कर्मधारयः)।
अनु०-तत्र इत्यनुवर्तते। अन्वय:-तत्र समानतीर्थाद् वासी यत्।
अर्थ:-तत्र इति सप्तमीसमर्थात् समानतीर्थ-शब्दात् प्रातिपदिकाद् वासीत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति ।
__ उदा०-समानतीर्थे वासीति-सतीर्थ्य: । समानोपाध्याय इत्यर्थः । तीर्थशब्दोऽत्र गुरुवचनो गृह्यते।
आर्यभाषा: अर्थ-(तत्र) सप्तमी-समर्थ (समानतीर्थे) समानतीर्थ प्रातिपदिक से (वासी) रहनेवाला अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है।
उदा०-समान (एक) तीर्थ पर रहनेवाला-सतीर्थ्य। समान-उपाध्यायवाला (सहपाठी)। यहां तीर्थ' शब्द गुरु-वाचक है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org