________________
५३२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-यत्, संज्ञायाम् चानुवर्तते । अत्र 'धर्मपथ्यर्थन्यायात्' इति पञ्चमीनिर्देशादेव पञ्चमीसमर्थविभक्तिर्गृह्यते।
अन्वय:-पञ्चमीसमर्थाद् धर्मपथ्यर्थन्यायाद् अनपेते यत्, संज्ञायाम् ।
अर्थ:-पञ्चमीसमर्थेभ्यो धर्मपथ्यर्थन्यायेभ्य: प्रातिपदिकेभ्योऽनपेत इत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति, संज्ञयायां गम्यमानायाम् ।
उदा०-(धर्म:) धर्मादनपेतम्-धर्म्यम् । (पन्था:) पथोऽनपेतम्-पथ्यम् । (अर्थ:) अर्थादनपेतम्-अर्थ्यम्। (न्याय:) न्यायादनपेतम्-न्याय्यम् ।
__ आर्यभाषाअर्थ-पञ्चमी-समर्थ (धर्मपथ्यर्थन्यायात्) धर्म, पथिन्, अर्थ, न्याय प्रातिपदिकों से (अनपेते) अदूर-समीप अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है (संज्ञायाम्) यदि वहां संज्ञा अर्थ की प्रतीति हो।
उदा०-(धर्म) धर्म ने अनपेत अदूर (समीप) धर्म्य। (पथिन्) पन्था से अनपेत-पथ्य। (अर्थ) अर्थ से अनपेत-अर्थ्य। (न्याय) न्याय से अनपेत-न्याय्य ।
सिद्धि-(१) धर्म्यम् । धर्म डसि+यत् । धर्मय। धर्म्य+सु । धर्म्यम्।
यहां पञ्चमी-समर्थ 'धर्म' शब्द से अनपेत-अर्थ में इस सूत्र से यथाविहित प्राग-हितीय 'यत्' प्रत्यय है। 'यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है।।
(२) पथ्यम् । यहां नस्तद्धिते (६।४।१४४) से पथिन्' के टि-भाग (इन्) का लोप होता है। शेष कार्य पूर्ववत् है। ऐसे ही-अर्थ्यम्, न्याय्यम् ।
निर्मितार्थप्रत्ययविधिः यथाविहितम् (यत्)
(१) छन्दसो निर्मिते।६३। प०वि०-छन्दस: ५।१ निर्मिते ७।१।।
अनु०-यत् इत्यनुवर्तते। अत्र प्रत्ययार्थसामर्थ्यात् तृतीयासमर्थविभक्तिर्गृह्यते।
अन्वय:-तृतीयासमर्थाच्छन्दसो निर्मित यत् ।
अर्थ:-तृतीयासमर्थाच्छन्द:शब्दात् प्रातिपदिकाद् निर्मित इत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति।
उदा०-छन्दसा (स्वेच्छया) निर्मितश्छन्दस्य पुत्रः । स्वेच्छया कृत इत्यर्थः । अत्र छन्द:शब्द इच्छापर्यायो गृह्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org