________________
४७८
पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-ओजश्च सहश्च अम्भश्च एतेषां समाहार: ओज:सहोऽम्भः, तेन-ओज:सहोऽम्भसा।
अनु०-तेन, ठक् इति चानुवर्तते । अन्वय:-तेन ओज:सहोऽम्भोभ्यो वर्तते ठक् ।
अर्थ:-तेन इति तृतीयासमर्थेभ्य ओज:सहोऽम्भोभ्य: प्रातिपदिकेभ्यो वर्तते इत्यस्मिन्नर्थे यथाविहितं ठक् प्रत्ययो भवति ।
उदा०-(ओजः) ओजसा वर्तते-औजसिक: शूरः। (सहः) सहसा वर्तते-साहसिकश्चौरः। (अम्भः) अम्भसा वर्तते-आम्भसिको मत्स्यः।
आर्यभाषा: अर्थ-तिन) तृतीया-समर्थ (ओज:सहोऽम्भसा) ओजस्, सहस्, अम्भस् प्रातिपदिकों से (वर्तते) वर्तत= है' अर्थ में यथाविहित (ठक्) ठक् प्रत्यय होता है।
उदा०-(ओज:) जो ओज (बल) के सहित है वह-औजसिक शूर। (सह:) जो सह: (मर्षण-शक्ति) के सहित है वह-साहसिक चौर। (अम्भः) जो अम्भः (जल) के सहित है वह-आम्भसिक मत्स्य (मछली)।
सिद्धि-औजसिकः । ओजस्+टा+ठक् । औजस्+इक । औजसिक+सु । औजसिकः ।
यहां तृतीया-समर्थ 'ओजस' शब्द से वर्तते (है) अर्थ में इस सूत्र से यथाविहित प्राग्वहतीय ठक्' प्रत्यय है। पूर्ववत् ' के स्थान में 'इक्’ आदेश और अंग को आदिवृद्धि होती है। ऐसे ही-साहसिक., आम्भसिकः । यथाविहितम् (ठक)
(२) तत् प्रत्यनुपूर्वमीपलोगकूलम् ।२८ । प०वि०-तत् २।१ प्रति-अनुपूर्वम् २१ ईपलोमकूलम् २१ (पञ्चम्यर्थे)।
स०-प्रतिश्च अनुश्च एतयो: समाहार: प्रत्यनु। प्रत्यनुपूर्वं यस्य तत् प्रत्यनुपूर्वम्, तत्-प्रत्यनुपूर्वम् (समाहारद्वन्द्वगर्भितबहुव्रीहिः)। ईपं च लोम च कूलं च एतेषां समाहार ईपलोमकूलम्, तत्-ईपलोमकूलम् (समाहारद्वन्द्व:)।
अनु०-वर्तते, ठक् इति चानुवर्तते। अन्वय:-तत् प्रत्यनुपूर्वाद् ईपलोमकूलाद् वर्तते ठक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org