________________
३६२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-स:, अस्य, भक्तिरिति चानुवर्तते। अन्वय:-स वासुदेवार्जुनाभ्याम् अस्य वुन् भक्तिः ।
अर्थ:-स इति प्रथमासमर्थाभ्यां वासुदेवार्जुनाभ्यां प्रातिपदिकाभ्याम् अस्येति षष्ठ्यर्थे वुन् प्रत्ययो भवति, यत् प्रथमासमर्थ भक्तिश्चेत् तद् भवति।
उदा०-(वासुदेव:) वासुदेवो भक्तिरस्य-वासुदेवकः । (अर्जुन:) अर्जुनो भक्तिरस्य-अर्जुनकः।
आर्यभाषा: अर्थ-(स:) प्रथमा-समर्थ (वासुदेवार्जुनाभ्याम्) वासुदेव, अर्जुन प्रातिपदिकों से (अस्य) षष्ठी-विभक्ति के अर्थ में (वुन्) वुन् प्रत्यय होता है (भक्ति:) जो प्रथमा-समर्थ है यदि वह भक्ति हो।
उदा०-(वासुदेव) वासुदेव श्रीकृष्ण भक्ति है इसकी यह-वासुदेवक। (अर्जुन) अर्जुन है भक्ति इसकी यह-अर्जुनक ।
सिद्धि-वासुदेवकः । वासुदेव+सु+वुन्। वासुदेव्+अक। वासुदेवक+सु । वासुदेवकः ।
यहां प्रथमा-समर्थ, भक्तिवाची वासुदेव' शब्द से अस्य इसकी अर्थ में इस सूत्र से वुन्' प्रत्यय है। युवोरनाकौ' (७।१।१) से 'वु' के स्थान में अक्’ आदेश होता है। यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है। ऐसे ही-अर्जुनकः ।
विशेष: वासुदेव-यहां वसुदेव शब्द से अपत्य अर्थ में ऋष्यन्धकवृष्णिकुरुभ्यश्च' (४।१।११४) से 'अण्' प्रत्यय है। वसुदेव का पुत्र वासुदेव कहाता है। श्रीकृष्ण के पिता का नाम वसुदेव था। महाभारत युद्ध में श्रीकृष्ण वीर अर्जुन का सारथि था। बहुलं वुञ्-
भक्तिः (११) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्।६६ । प०वि०-गोत्र-क्षत्रियाख्येभ्य: ५।३ बहुलम् १।१ वुञ् १।१।
स०-गोत्रं च क्षत्रियश्च तौ गोत्रक्षत्रियौ। गोत्रक्षत्रियावाऽऽख्या येषां ते-गोत्रक्षत्रियाख्या:, तेभ्य:-गोत्रक्षत्रियाख्येभ्यः (इतरेतरद्वन्द्वगर्भितबहुव्रीहिः) ।
अनु०-स:, अस्य, भक्तिरिति चानुवर्तते। अन्वय:-स गोत्रक्षत्रियाख्येभ्योऽस्य बहुलं वुञ्, भक्ति: ।
अर्थ:-स इति प्रथमासमर्थेभ्यो गोत्राख्येभ्यः क्षत्रियाख्येभ्यश्च प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे बहुलं वुञ् प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेत् तद् भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org