________________
चतुर्थाध्यायस्य तृतीयः पादः
३३५ अन्वय:-तत्र स्थनान्तगोशालखरशालाच्च यथाविहितं प्रत्ययस्य लुक्।
अर्थ:-तत्र इति सप्तमीविभक्तिसमर्थेभ्य: स्थानान्तगोशालखरशालेभ्य: प्रातिपदिकेभ्यश्च जात इत्यस्मिन्नर्थे यथाविहितं प्रत्ययस्य लुग् भवति ।
__उदा०-(स्थानान्तम् ) गोस्थाने जातो गोस्थानः। अश्वस्थाने जातोऽश्वस्थान:। (गोशालम्) गोशाले जातो गोशाल:। (खरशालम्) खरशाले जात: खरशालः।
आर्यभाषा अर्थ-(तत्र) सप्तमी-विभक्ति-समर्थ (स्थानान्तगोशालखरशालात्) स्थानान्त, गोशाल, खरशाल प्रातिपदिकों से (च) भी यथाविहित प्रत्यय का (लुक्) लोप हो जाता है।
उदा०-(स्थानान्त) गोस्थाने जातो गोस्थानः । गोस्थान में उत्पन्न हुआ-गोस्थान । अश्वस्थाने जातोऽश्वस्थानः । अश्वस्थान में उत्पन्न हुआ-अश्वस्थान । (गोशाल) गोशाले जातो गोशाल: । गोशाला में उत्पन्न हुआ-गोशाल। (खरशाल) खरशाले जात: खरशाल: । खरशाला-गर्दभशाला में उत्पन्न हुआ-खरशाल।
सिद्धि-गोस्थान: । गोस्थान+डि+अण् । गोस्थान+० गोस्थान+सु। गोस्थानः ।
यहां सप्तमी-समर्थ स्थानान्त गोस्थान' शब्द से जात अर्थ में इस से प्राग्दीव्यतोऽण् (४।१।८३) से यथाविहित 'अण्' प्रत्यय का इस सूत्र से लुक् होता है। ऐसे ही-अश्वस्थान:, गोशाल:, खरशाल:। प्रत्ययस्य लुक्-विकल्पः(१२) वत्सशालाभिजिदश्वयुक्शतभिषजो वा।३६।
प०वि०-वत्सशाल-अभिजित्-अश्वयुक्-शतभिषज: ५।१ वा अव्ययपदम्।
स०-वत्सानां शालेति वत्सशालम् विभाषा सेनासुराच्छाया०' (२।४।२५) इति शालान्तस्य विभाषा नपुंसकत्वम्। वत्सशालं च, अभिजिच्च, अश्वयुक् च शतभिषक् च एतेषां समाहारो वत्सशालाभिजिदश्वयुक्शतभिषक्, तस्मात्-वत्सशालाभिजिदश्वयुक्शतभिषज: (षष्ठीतत्पुरुषगर्भितसमाहारद्वन्द्वः) ।
अनु०-तत्र, जात:, लुगिति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org