________________
चतुर्थाध्यायस्य तृतीयः पादः
उत्तरशेषार्थप्रत्ययप्रकरणम् खञ्+छ-प्रत्ययविकल्पः__(५५) युष्मदस्मदोरन्यतरस्यां खञ् च।१।
प०वि०-युष्मद्-अस्मदो: ६।२ (पञ्चम्यर्थे) अन्यतरस्याम् अव्ययपदम्, खञ् १।१ च अव्ययपदम् ।
___ स०-युष्मच्च अस्मच्च तौ युष्मदस्मदौ, तयो:-युष्मदस्मदो: (इतरेतरयोगद्वन्द्व:)।
अनु०-शेषे, छ इति चानुवर्तते। अन्वय:-यथासम्भव०युष्मदस्मद्भ्यां शेषेऽन्यतरस्यां खञ् छश्च ।
अर्थ:-यथासम्भवविभक्तिसमर्थाभ्यां युष्मदस्मद्भ्यां प्रातिपदिकाभ्यां शेषेष्वर्थेषु विकल्पेन खञ् छश्च प्रत्ययो भवति, पक्षे चाऽण् प्रत्ययो भवति।
उदा०-(युस्मद्) युष्मासु जातो यौष्माकीण: (खञ्)। युष्मदीय: (छ:) । यौष्माक: (अण्) । (अस्मद्) अस्मासु जात आस्माकीन: (खञ्) । अस्मदीयः (छ:)। आस्माक: (अण्) ।
आर्यभाषा: अर्थ-यथासम्भव-विभक्ति-समर्थ (युस्मदस्मदो:) युष्मद्, अस्मद् प्रतिपदिकों से (शेषे) शेष अर्थों में (अन्यतरस्याम्) विकल्प से (खञ्) खञ् (च) और छ प्रत्यय होते हैं और विकल्प पक्ष में औत्सर्गिक अण् प्रत्यय होता है।
उदा०-(युस्मद्) युष्मासु जातो यौष्माकीण: (खञ्)। तुम में उत्पन्न हुआयौष्माकीण। युष्मदीय: (छ:)। तुम में उत्पन्न हुआ-युष्मदीय। यौष्माक: (अण)। तुम में उत्पन्न हुआ-यौष्माक। (अस्मद्) अस्मासु जात आस्माकीन: (ख)। हम में उत्पन्न हुआ-आस्माकीन। अस्मदीय: (छ:)। हम में उत्पन्न हुआ-अस्मदीय। आस्माक: (अण्)। हम में उत्पन्न हुआ-आस्माक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org