________________
चतुर्थाध्यायस्य द्वितीयः पादः
२५५ सिद्धि-आभिसारकः । आभिसार+डि+वुञ्। आभिसार्+अक। आभिसारक+सु। आभिसारकः।
यहां सप्तमी-समर्थ, वृद्धसंज्ञक, जनपदवाची आभिसार' शब्द से शेष अर्थ में इस सूत्र से 'वुञ्' प्रत्यय है। 'युवोरनाकौ' (७।१।१) से 'वु' के स्थान में 'अक' आदेश और तद्धितेष्वचामादेः' (७ ।२।११७) से अंग को पर्जन्यवत् आदिवृद्धि होती है। ऐसे ही-आदर्शक: आदि।
वुञ्
(३४) अवृद्धादपि बहुवचनविषयात् ।१२४ । प०वि०-अवृद्धात् ५ ।१ अपि अव्ययपदम्, बहुवचनविषयात् ५।१।
स०-न वृद्धमिति अवृद्धम्, तस्मात्-अवृद्धात् (नञ्तत्पुरुषः)। बहुवचनं विषयो यस्य तद् बहुवचनविषयम्, तस्मात्-बहुवचनविषयात् (बहुव्रीहि:)।
अनु०-शेषे, वृद्धात्, वुञ् जनपदतदवध्यो: इति चानुवर्तते।
अन्वय:-यथासम्भव०बहुवचनविषयाद् अवृद्धाद् वृद्धादपि जनपदात् तदवधेश्च शेषे वुञ्।
अर्थ:-यथासम्भवविभक्तिसमर्थाद् बहुवचनविषयाद् अवृद्धसंज्ञकाद् वृद्धसंज्ञकादपि जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकात् शेषेष्वर्थेषु वुञ् प्रत्ययो भवति।
उदा०-(अवृद्धाज्जनपदात्) अङ्गेषु जात: आङ्गकः। वङ्गेषु जातो वाङ्गक: । कलिङ्गेषु जात: कालिङ्गक: । हरयाणेषु जातो हारयाणक: । (वृद्धाज्जनपदात्) दार्वेषु जातो दार्वक: । जाम्बवेषु जातो जाम्बवकः। अजक्रन्देषु जात आजक्रन्दकः। (वृद्धाज्जनपदावधे:) कालजरेषु जात: कालजरकः । वैकुलिशेषु जातो वैकुलिशकः ।
आर्यभाषा: अर्थ-यथासम्भव-विभक्ति-समर्थ (बहुवचनविषयात्) बहुवचन विषयक (अवृद्धात्) अवृद्ध संज्ञक तथा (वृद्धात्) वृद्धसंज्ञक (अपि) भी (जनपदतदवध्यो:) जनपदवाची तथा तदवधिवाची प्रातिपदिकों से (शेषे) शेष अर्थों में (ज्) वुञ् प्रत्यय होता है।
उदा०-(अवृद्ध जनपद) अगेषु जात: आङ्गकः । अङ्ग जनपद में उत्पन्न हुआ-आङ्गक। वङ्गेषु जातो वाङ्गकः । वङ्ग जनपद में उत्पन्न हुआ-वाङ्गक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org