________________
चतुर्थाध्यायस्य द्वितीयः पादः
१८३
सिद्धि-आग्रहायणिक । आग्रहायणी+सु+ठक् । आग्रहायण्+इक् आग्रहायणिक+सु । आग्रहायणिकः ।
यहां प्रथमा-समर्थ ‘आग्रहायणी' शब्द से 'अस्मिन्' इस सप्तमी अर्थ में इस सूत्र से 'ठक्' प्रत्यय है । 'ठस्येक:' ( ७1३1५० ) से 'ठू' के स्थान में 'इक्' आदेश और 'यस्येति च' (६।४।१४८) से अंग के ईकार का लोप होता है । 'तद्धितेष्वचामादेः' ( ७ । २ । ११७ ) से पर्जन्यवत् सूत्रप्रवृत्ति होने से अंग को आदिवृद्धि होती है। ऐसे ही- आश्वत्थक: ।
विशेष- अश्वत्था- 'लुबविशेष (४।२।४) से अविशेष काल की विवक्षा में प्रत्यय का लुप् होता है किन्तु यहां सूत्रोक्त निपातन से पौर्णमासी काल की विशेष विवक्षा में 'अण्' प्रत्यय का लुप् होता है- अश्वत्थेन युक्ता पौर्णमासी- अश्वत्था । अश्वत्थ = अश्विनी
नक्षत्र ।
ठक्-अण्
(३) विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ।२२।
प०वि०-विभाषा १।१ फाल्गुनी - श्रवणा - कार्तिकी - चैत्रीभ्यः ५ । ३ । स०-फाल्गुनी च श्रवणा च कार्तिकी च चैत्री च ताः - फाल्गुनी० चैत्र्यः, ताभ्यः-फाल्गुनी०चैत्रीभ्यः (इतरेतरयोगद्वन्द्वः) ।
अनु०-सा, अस्मिन्, पौर्णमासी, इति, ठक् इति चानुवर्तते । अन्वयः-सा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्योऽस्मिन् विभाषा ठक् पौर्णमासी इति ।
अर्थ:-सा-इति प्रथमासमर्थेभ्यः फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः प्रातिपदिकेभ्योऽस्मिन्निति सप्तम्यर्थे विकल्पेन ठक् प्रत्ययो भवति, यत् प्रथमासमर्थं पौर्णमासी इति चेत् सा भवति ।
उदा०- ( फाल्गुनी) फाल्गुनी पौर्णमासी अस्मिन् सः - फाल्गुनिक:, फाल्गुनो वा मास: । (श्रवणा) श्रवणा पौर्णमासी अस्मिन् सः - श्रावणिकः, श्रावणो वा मास: । ( कार्तिकी) कार्तिकी पौर्णमासी अस्मिन् सः - कार्तिकिक:, कार्तिको वा मास: । ( चैत्री) चैत्री पौर्णमासी अस्मिन् सः - चैत्रिकः, चैत्रो
वा मास:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org