________________
१२६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-तस्य कुलाद् अपत्यं खः ।
अर्थ:-तस्य इति षष्ठीसमर्थात् कुलान्तात् केवलाच्च प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे ख: प्रत्ययो भवति ।
उदा०-(तदन्तात्) आढ्यकुलस्यापत्यम्-आढ्यकुलीनः । श्रोत्रियकुलस्यापत्यम्-श्रोत्रियकुलीनः । (केवलात्) कुलस्यापत्यम्-कुलीनः ।
उत्तरसूत्रे पूर्वपदप्रतिषेधादत्र तदन्त: केवलश्च कुलशब्दो गृह्यते।
आर्यभाषा: अर्थ- (तस्य) षष्ठी-समर्थ (कुलान्तात्) कुलान्त तथा केवल कुल शब्द प्रातिपदिक से (अपत्यम्) अपत्य अर्थ में (ख:) ख प्रत्यय होता है।
उदा०- (तदन्त) आढ्यकुलस्यापत्यम्-आढ्यकुलीन:। धनी कुल का पुत्रआढयकुलीन। श्रोत्रियकुलस्यापत्यम्-श्रोत्रियकुलीनः । वेदपाठी कुल का पुत्र-श्रोत्रियकुलीन। (केवल) कुलस्यापत्यम्-कुलीनः । उच्च वंश का पुत्र-कुलीन।
आगामी सूत्र (४।१।१४०) में पूर्वपदवाले कुल' शब्द से ख' प्रत्यय के प्रतिषेध से यहां तदन्त और केवल कुल' शब्द का ग्रहण किया जाता है।
सिद्धि-आढ्यकुलीन: । आढ्यकुल+डस्+ख । आढ्यकुल्+ईन । आढ्यकुलीन+सु। आढयकुलीनः ।
यहां षष्ठी-समर्थ 'आढयकुल' शब्द से अपत्य अर्थ में इस सूत्र से 'ख' प्रत्यय है। 'आयनेयः' (७ ११।२) से खू' के स्थान में ईन्' आदेश होता है। ऐसे ही-श्रोत्रियकुलीन:, कुलीनः। यत्+ढकञ्
(१) अपूर्वपदादन्यतरस्यां यड्ढकञौ।१४०। प०वि०-अपूर्वपदात् ५ ।१ अन्यतरस्याम् अव्ययपदम्, यड्ढकौ १।२।
स०-अविद्यमानं पूर्वपदं यस्य तद्-अपूर्वपदम्, तस्मात्-अपूर्वपदात् (बहुव्रीहि:)। यच्च ढकञ् च तौ-यड्ढकौ, (इतरेतरयोगद्वन्द्वः) ।
अनु०-तस्य, अपत्यम्, कुलादिति चानुवर्तते। अन्वय:-तस्य अपूर्वपदात् कुलाद् अपत्यम् अन्यतरस्यां यड्ढकञौ ।
अर्थ:-तस्य इति षष्ठीसमर्थाद् अपूर्वपदात् कुलशब्दात् प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे विकल्पेन यत्-ढकञौ प्रत्ययौ भवत: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org