________________
चतुर्थाध्यायस्य प्रथमः पादः
अनु० - तस्य अपत्यम्, अण् इति चानुवर्तते ।
अन्वयः - तस्य अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्योऽपत्यम् अण् । अर्थः-तस्य इति षष्ठीसमर्थेभ्योऽवृद्धसंज्ञकेभ्यो नदीनां मानुषीणां च नामधेयेभ्यः प्रातिपदिकेभ्योऽपत्येऽर्थेऽण् प्रत्ययो भवति ।
1
उदा०-(नदी) यमुनाया अपत्यम् - यामुनः । इरावत्या अपत्यम्ऐरावतः । वितस्तायां अपत्यम् - वैतस्तः । नर्मदाया अपत्यम् - नार्मदः । ( मानुषी) शिक्षिताया अपत्यम् - शैक्षितः । चिन्तिताया अपत्यम् - चैन्तित: । आर्यभाषाः अर्थ- (तस्य) षष्ठी-समर्थ (अवृद्धाभ्यः) अवृद्धसंज्ञक ( नदीमानुषीभ्यः) नदियों और मानुषियों (तन्नामिकाभ्यः ) के नामवाले प्रातिपदिकों से (अपत्यम्) अपत्य अर्थ में (अण्) अण् प्रत्यय होता है।
१०७
उदा०- - (नदी) यमुनाया अपत्यम् - यामुन: । यमुना नामक स्त्री का पुत्र- यामुन । इरावत्या अपत्यम् - ऐरावतः । इरावती नामक स्त्री का पुत्र - ऐरावत । वितस्ताया अपत्यम्-वैतस्तः। वितस्ता नामक स्त्री का पुत्र - वैतस्त । नर्मदाया अपत्यम्- नार्मदः । नर्मदा नामक स्त्री का पुत्र - नार्मद। ( मानुषी) शिक्षिताया अपत्यम् - शैक्षित: । शिक्षित नामक मानुषी का पुत्र - शैक्षित । चिन्तिताया अपत्यम् - चैन्तित: । चिन्तिता नामक मानुषी का पुत्र- चैन्तित ।
सिद्धि - यामुन: । यमुना+ङस् +अण् । यामुन्+अ। यामुन+सु। यामुनः।
यहां षष्ठी - समर्थ अवृद्ध संज्ञक, नदीवाची स्त्रीनाम 'यमुना' शब्द से इस सूत्र से ‘अण्' प्रत्यय है। पूर्ववत् अंग को आदिवृद्धि और अंग के आकार का लोप होता है। ऐसे ही - ऐरावतः आदि ।
अण्
(३) ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११४ ॥ प०वि०-ऋषि-अन्धक-वृष्णि - कुरुभ्य: ५ । ३ च अव्ययपदम्। सo - ऋषिश्च अन्धकश्च वृष्णिश्च कुरुश्च ते ऋष्यन्धकवृष्णिकुरवः, तेभ्यः - ऋष्यन्धकवृष्णिकुरुभ्यः (इतरेतरयोगद्वन्द्वः) ।
अनु० - तस्य अपत्यम्, अण् इति चानुवर्तते ।
अन्वयः - तस्य ऋष्यन्धकवृष्णिकुरुभ्यश्चापत्यम् अण् । अर्थ:-तस्य इति षष्ठीसमर्थेभ्य ऋष्यन्धकवृष्णिकुरुवाचिभ्यः प्रातिपदिकेभ्योऽपत्येऽर्थेऽण् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org