________________
७४
ष्यङ् आदेशः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२) गोत्रावयवात् । ७६ ।
प०वि० - गोत्रावयवात् ५ । १ ।
स०-गोत्रं च तदवयवं चेति गोत्रावयवम्, तस्मात्-गोत्रावयवात् ( कर्मधारयः) । अत्र राजदन्तादेराकृतिगणत्वाद् विशेषणस्य परनिपातः । गोत्रं चेह लौकिकं गृह्यते, न पारिभाषिकम् । लोके च प्रधानभूत आदिपुरुषः स्वप्रभवस्यापत्यसन्तानस्य संज्ञाकारी गोत्रमित्युच्यते । तथा हि भरतो नाम कश्चिद् आद्य: प्रधानः पुरुषोऽभूत्, तेन सर्वे एव तत्पूर्वका : पुत्रपौत्रादयो भरता इति व्यपदिश्यन्ते ।
अनु०- अणिञोः, ष्यङ् इति चानुवर्तते ।
अन्वयः - गोत्रावयवाद् अणिञोः स्त्रियां ष्यङ् ।
अर्थ:- गोत्रावयववाचिभ्यः = लोके गोत्राख्येभ्यः प्रातिपदिभ्यो गोत्रापत्येऽर्थे विहितयोरणिञोः प्रत्यययोः स्थाने स्त्रियां ष्यङ् आदेशो भवति ।
उदा०5- पुणिकस्य गोत्रापत्यं स्त्री - पौणिक्या । भुणिकस्य गोत्रापत्यं स्त्री- भौणिक्या । मुखरस्य गोत्रापत्यं स्त्री मौखर्या ।
आर्यभाषा: अर्थ - (गोत्रावयवात्) लोक में गोत्र नाम से प्रसिद्ध प्रातिपदिकों से (गोत्रे) गोत्रापत्य अर्थ में विहित (अणिञोः) अण् और इञ् प्रत्यय के स्थान में (स्त्रियाम्) स्त्रीलिङ्ग में ( ष्यङ् ) ष्यङ् आदेश होता है।
उदा०
० - पुणिकस्य गोत्रापत्यं स्त्री- पौणिक्या । पुणिक की पौत्री । भुणिकस्य गोत्रापत्यं स्त्री- भौणिक्या । भुणिक की पौत्री । मुखरस्य गोत्रापत्यं स्त्री मौखर्या । मुखर की पौत्री ।
सिद्धि-पौणिक्या । पुणिक+इञ् । पौणिक्+इ । पौणिक्+ष्यङ्+चाप् । पौणिक्य+आ। पौणिक्या+सु । पौणिक्या ।
Jain Education International
यहां लोक में प्रसिद्ध गोत्रवाची पुणिक' शब्द से गोत्रापत्य अर्थ में 'अत इञ्' (४/१/९५ ) से 'इञ्' प्रत्यय और इस सूत्र से 'इञ्' के स्थान में ष्यङ्' आदेश है । 'घङश्चाप्' (४/१/७४) से स्त्रीलिङ्ग में चाप्' प्रत्यय होता है। ऐसे ही भौणिक्या, मौखर्या ।
For Private & Personal Use Only
www.jainelibrary.org