________________
चतुर्थाध्यायस्य प्रथमः पादः
६६
स०- शार्ङ्गरव आदिर्येषां ते शार्ङ्गरवादय:, शारङ्गरवादयश्च अञ् च एतेषां समाहारः-शार्ङ्गरवाद्यञ्, तस्मात्-शारङ्गवाद्यञः (बहुव्रीहिगर्भितसमाहारद्वन्द्वः) ।
अन्वयः-शार्ङ्गरवाद्यञः प्रातिपदिकात् स्त्रियां ङीन्। अर्थः-शार्ङ्गरवादिभ्योऽञ्प्रत्ययान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन्
प्रत्ययो भवति ।
।
उदा०-(शार्ङ्गरवादिः) शृङ्गरोरपत्यं स्त्री - शार्ङ्गरवी । कपटोरपत्यं स्त्री - कापटवी । ( अञ्) बिदस्य गोत्रापत्यं बैदी । उर्वस्य गोत्रापत्यं स्त्री और्वी ।
शार्ङ्गरव । कापटव । गौगुलव । ब्राह्मण । गौतम । कामण्डलेय ब्राह्मणकृतेय। आनिचेय । आनिधेय । आशोकेय । वात्स्यायन । माञ्जायन । केकय । काव्य । शैव्य । एहि । पर्य्येहि । आश्मरथ्य । औदपान । अराल । चण्डाल। वतण्ड । भोगवद्गौरिमतोः संज्ञायाम् । भोगवती। गौरिमती। नृनरयोर्वृद्धिश्च । नारी इति शार्ङ्गरवादयः ।
I
आर्यभाषाः अर्थ- (शार्ङ्गरवाद्यञः) शार्ङ्गरव आदि तथा अञ्-प्रत्ययान्त प्रातिपदिकों से (स्त्रियाम्) स्त्रीलिङ्ग में (ङीन्) ङीन् प्रत्यय होता है।
उदा००- (शार्ङ्गरवादिः) शृङ्गरोरपत्यं स्त्री - शार्ङ्गरवी । शृङ्गुरु की पुत्री । कपटोरपत्यं स्त्री- कापटवी । (अञ्) बिदस्य गोत्रापत्यं बैदी । बिद की पौत्री । उर्वस्य गोत्रापत्यं स्त्री और्वी । उर्व की पौत्री ।
सिद्धि - (१) शार्ङ्गरवी । शृङ्गरु+अण् । शार्ङ्गरो+अ । शार्ङ्गरव् + ङीन् । शार्ङ्गरवी + सु । शार्ङ्गरवी ।
यहां प्रथम ‘शृङ्गरु' शब्द से 'तस्यापत्यम्' (४ |१| ९२) से अपत्य अर्थ में 'अण्’ प्रत्यय, 'तद्धितेष्वचामादेः' (७/२ ।११७) से अंग को आदिवृद्धि और 'ओर्गुण:' (६।४।१४६) अंग को गुण होता है । तत्पश्चात् स्त्रीलिङ्ग में इस सूत्र से 'ङीन्' प्रत्यय है 1
(२) कापटवी । कपटु+अण्+ङीन् । कापटवी । पूर्ववत् ।
(३) बैदी । बिद+अञ् । वैद+ङीन् । बैदी+सु । बैदी ।
यहां प्रथम 'अनृष्यानन्तर्ये बिदादिभ्योऽञ्' (४ 1१1१०४) से गोत्रापत्य अर्थ में 'अञ्' प्रत्यय, तत्पश्चात् स्त्रीलिङ्ग में इस सूत्र से 'ङीन्' प्रत्यय है ।
(४) और्वी । उर्व+अञ् + ङीन् । और्वी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org