SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः-अन्यथैवंकथमित्थंसु कृञो धातोर्णमुल्, सिद्धाप्रयोगश्चेत् । अनु० - कृञः, णमुल् इति चानुवर्तते । अर्थ:-अन्यथा=एवं कथम् इत्थंसु उपपदेषु कृञ्धातोः परो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतेर्भवति । कथं पुनरसौ सिद्धाप्रयोगः ? निरर्थकत्वान्न प्रयोगमर्हतीति एवमेव प्रयुज्यते । 'अन्यथा भुङ्क्ते' इति यावानर्थस्तावानेवान्यथाकारं भुङ्क्ते इत्यस्य विज्ञायते । ४७८ उदा०-(अन्यथा) अन्यथाकारं भुङ्क्ते । (एवम्) एवङ्कारं भुङ्क्ते । ( कथम् ) कथङ्कारे भुङ्क्ते । (इत्थम् ) इत्थङ्कारं भुङ्क्ते । आर्यभाषा - अर्थ:- (अन्यथा० इत्थंसु ) अन्यथा, एवम्, कथम्, इत्थम् शब्द उपपद होने पर (कृञः) कृञ् (धातो:) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है (सिद्धाप्रयोगः, चेत्) यदि वहां कृञ् धातु का अप्रयोग सिद्ध हो। जहां निरर्थक होने से प्रयोग की आवश्यकता न हो और वहां उसका प्रयोग किया जाये उसे सिद्धाप्रयोग कहते हैं । जो अर्थ 'अन्यथा भुङ्क्ते' का है वही अर्थ 'अन्यथाकारं भुङ्क्ते' का है। अत: यहां 'कृञ्' धातु सिद्धाप्रयोग है। उदा०- - ( अन्यथा ) अन्यथाकारं भुङ्क्ते । अन्य प्रकार से खाता है। (एवम्) एवङ्कारं भुङ्क्ते। इस प्रकार से खाता है । (कथम् ) कथङ्कारं भुङ्क्ते । किस प्रकार से खाता है । (इत्थम् ) इत्थङ्कारं भुङ्क्ते । इस प्रकार से खाता है । सिद्धि - (१) अन्यथाकारम् । अन्यथा+कृ+णमुल् । अन्यथा + कार्+अम् । अन्यथा+करम्+सु। अन्यथाकारम् । यहां अन्यथा उपपद्र होने पर 'कृ' धातु से णमुल् प्रत्यय है। शेष कार्य पूर्ववत् है । 'एवङ्कारम्' आदि में कोई विशेष नहीं है। णमुल् (असूयाप्रतिवचने) - (३) यथातथयोरसूयाप्रतिवचने । २८ । प०वि०-यथा-तथयोः ७।२ असूया - प्रतिवचने ७ । १ । सo - यथाश्च तथाश्च तौ यथातथौ, तयोः - यथातथयो: (इतरेतरयोगद्वन्द्वः) । असूया=निन्दा, प्रतिवचनम् = उत्तरम्। असूयायाः प्रतिवचनमिति असूयाप्रतिवचनम्, तस्मिन् - असूयाप्रतिवचने (षष्ठीतत्पुरुषः ) । अनु०- णमुल्, कृञः सिद्धाप्रयोगश्चेद् इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy