________________
तृतीयाध्यायस्य तृतीयः पादः विविधार्थप्रत्ययप्रकरणम्
कृत्या ल्युट् च (बहुलार्थकाः ) - (१) कृत्यल्युटो बहुलम् | ११३ |
प०वि० - कृत्य - ल्युट : १ । ३ बहुलम् १ । १ । स०-कृत्याश्च ल्युट् च ते - कृत्यल्युट : (इतरेतरयोगन्द्वः) । अनु० - 'अकर्तरि कारके भावे च' इति निवृत्तम् । अर्थः-कृत्यसंज्ञकाः प्रत्यया ल्युट् च प्रत्ययो धातोः परो बहुलमर्थेषु भवन्ति । यस्मिन्नर्थे विहितास्ततोऽन्यत्रापि भवन्ति । कृत्यसंज्ञकाः प्रत्यया भावे कर्मणि चार्थे विहितास्ते कारकान्तरेऽपि भवन्ति ।
उदा०- ( कृत्याः ) स्नाति येनेति स्नानीयं चूर्णम् । दीयते यस्मै स दानीयो ब्राह्मणः । ( ल्युट् ) करणाधिकरणयोभवि चार्थे ल्युड् विहितः सोऽन्यत्रापि भवति । अपसिच्यते यदिति अपसेचनम् । अवस्राव्यते यदिति अवस्रावणम्। भुज्यन्त इति भोजनाः, राज्ञो भोजना इति राजभोजनाः शालयः । आच्छाद्यन्ते इति आच्छादनानि राज्ञ आच्छादनानीति राजाच्छादनानि वासांसि । प्रस्कन्दति यस्मादिति प्रस्कन्दनम्। प्रपतीति यस्मादिति प्रपतनम्।
३८५
आर्यभाषा-अर्थ- (कृत्यल्युट :) कृत्यसंज्ञक प्रत्यय और ल्युट् प्रत्यय ( धातोः ) धातु से परे (बहुलम् ) बहुल अर्थों में होते हैं। जिस अर्थ में विहित हैं उससे अन्यत्र भी होते हैं । कृत्यसंज्ञक प्रत्यय भाव और कर्म अर्थ में विहित हैं वे अन्य कारक में भी होते हैं ।
उदा०- - (कृत्य) स्नाति येनेति स्नानीयं चूर्णम् । स्नान करने योग्य आटा (उबटन) । दीयते यस्मै स दानीयो ब्राह्मणः । दान देने योग्य ब्राह्मण। (ल्युट् ) करण और अधिकरण तथा भाव अर्थ में ल्युट् प्रत्यय विहित है, वह अन्य अर्थ में भी होता है। अपसिच्यते यदिति अपसेचनम्। जो भलीभांति नहीं सींचा जाता है। अवस्राव्यत यदिति अवस्रावणम् । जो बुरी तरह बहाया जाता है। भुज्यन्त इति भोजनाः, राज्ञो भोजना इति राजभोजनाः शालयः । राजा के भोजन करने योग्य चावल । आच्छाद्यन्त इति आच्छादनानि राज्ञ आच्छादनानीति राजाच्छादनानि वासांसि । राजा के ओढने योग्य वस्त्र । प्रस्कन्दति यस्मादिति प्रस्कन्दनम् । जिससे फिसलता है, वह स्थान । प्रपतति यस्मादिति प्रपतनम् । जिससे जलादि गिरता है, वह झरना आदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org