________________
तृतीयाध्यायस्य प्रथमः पादः
२१
स०-लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गृश्च
ते लुपसदचरजपजभदहदशग्रः, तेभ्यः - लुपसदचरजपजभदहदशगृभ्यः ( इतरेतरयोगद्वन्द्वः) । धात्वर्थो भावः । भावस्य गर्हा इति भावगर्हा, तस्याम्-भावगर्हायाम् (षष्ठीतत्पुरुषः) ।
अनु०-धातोः, नित्यम्, यङ् इति चानुवर्तते । अन्वयः - लुप०गृभ्यो भावगर्हायां नित्यं यङ् ।
अर्थः-लुपसदचरजपजभदहदशगृभ्यो धातुभ्यो भावगर्हायाम् = धात्वर्थीनिन्दायामर्थे नित्यं यङ् प्रत्ययो भवति । नित्यम् = एव ।
उदा०- (लुप ) गर्हितं लुम्पति - लोलुप्यते । (सद) गर्हितं सीदति - सासद्यते । (चर) गर्हितं चरति चञ्चूर्यते । (जप) गर्हितं पति- जञ्जप्यते । (जभ ) गर्हितं जभते । जञ्जभ्यते । (दह) गर्हितं दहति - दन्दह्यते । (दश) गर्हित दंशयति दन्दश्यते । ( गु) गर्हितं गिरति-निजेगिल्यते ।
आर्यभाषा-अर्थ-(लुप०गृभ्यः) लुप, सद, चर, जप, जभ, दह, दश, गृ ( धातोः ) धातुओं से परे (भावगर्हायाम् ) धात्वर्थ की निन्दा अर्थ में (नित्यम्) ही (यङ) यङ् प्रत्यय होता है।
उदा०
- (लुप) गर्हितं लुम्पति - लोलुप्यते । खराब ढंग से काटता है । (सद ) गर्हितं सीदति - सासद्यते । खराब ढंग से बैठता है । (चर) गर्हितं चरति चञ्चूर्यते । खराब ढंग से चलता है अथवा खाता है। (जप) गर्हितं जपति- जञ्जप्यते । अशुद्ध जप करता है । (जभ ) गर्हितं जभते - जञ्जभ्यते । बुरी तरह जंभाई लेता है । (दह) गर्हितं दंशयते - दन्दश्यते । बुरी तरह डसता है । (गृ) गर्हितं गिरति-निजेगिल्यते । बुरी तरह निगलता है।
सिद्धि - (१) लोलुप्यते । लुप+यङ् । लुप्+लुप्+य । लो+लुप्+य । लोलुप्य । लोलुप्य+लट् । लोलुप्य+शप्+त। लोलुप्य+अ+ते । लोलुप्यते ।
यहां 'लुप्लृ छेदने' (तु० उ० ) धातु से इस सूत्र से भावगर्हा अर्थ में 'यङ्' प्रत्यय है । 'सन्यङो:' (६ 1१1९) से धातु को द्वित्व होता है। 'गुणो यङ्लुको:' (७।४।८२) से अभ्यास को गुण होता है । यङन्त 'लोलुप्य' धातु से 'वर्तमाने लट्' (३ ।२।१२३) से 'लट्' प्रत्यय है।
(२) सासद्यते । षट्ट विशरणगत्यवसादनेषु' (भ्वा०प०) । 'दीर्घोऽकित: ' (७/४/८३) से अभ्यास को दीर्घ होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org