________________
तृतीयाध्यायस्य तृतीयः पादः
वर्तमानकालप्रत्ययप्रकरणम्
उणादयः प्रत्ययाः
(१) उणादयो बहुलम् | १ |
प०वि० - उणादय: १ । ३ बहुलम् १ । १ । स०- उण् आदिर्येषां ते उणादयः ( बहुव्रीहि: ) ।
अनु०- पुवः संज्ञायाम् (३ । २ । १८५ ) इत्यतः संज्ञायामिति मण्डूकोत्प्लुत्याऽनुवर्तते । 'वर्तमाने' इति चानुवर्तते ।
अन्वयः - धातोर्वर्तमाने बहुलम् उणादयः संज्ञायाम् ।
अर्थ:- धातुभ्यो वर्तमाने काले उणादयः प्रत्यया बहुलं भवन्ति, संज्ञायां गम्यमानायाम्
1
उदा०-कारुः। वायुः । पायुः । जायुः । मायुः स्वादुः । साधुः ।
आशुः ।
आर्यभाषा-अर्थ- (धातोः) धातुओं से परे (वर्तमाने) वर्तमानकाल में (उणादयः) उण् आदि प्रत्यय (बहुलम् ) अधिकांश होते हैं (संज्ञायाम् ) संज्ञा विषय में ।
उदा०-कारुः । कर्ता वा शिल्पी । वायुः । पवन । पायुः । गुदा । जायुः । शूर । मायुः । पित्त । स्वादुः । भोज्य अन्न । साधुः । सज्जन । आशुः । अश्व ।
सिद्धि-(१) कारुः । कृ+उण् । कार्+उ । कारु+सु । कारुः ।
यहां 'डुकृञ् करणे' (तना० उ० ) धातु से कृवापाजिमिस्वदिसाध्यशूभ्य उण्' (उणादि० १।१) से 'उण्' प्रत्यय है। 'अचो ञ्णिति' (७।२1११५ ) से 'कृ' धातु को वृद्धि होती है।
(२) वायुः । वा+उण्। वा+युक्+उ। वायु+सु। वायुः ।
यहां 'वा गतिगन्धनयो:' (अदा०प०) । 'आतो युक् चिण् कृतो:' (७ । ३ । ३३) से 'युक्' आगम होता है।
(३) पायु: । 'पा रक्षणे' (अदा०प०) पूर्ववत् ।
(४) जायु: । जि+उण् । जै+उ। जायु+सु । जायुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org