SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य प्रथमः पादः ल्युः+ णिनिः+अच् (१) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः | १३४ । प०वि०-नन्दि-ग्रहि-पचादिभ्यः ५ । ३ ल्यु- णिनि-अचः १।३ । स०-नन्दिश्च ग्रहिश्च पच् च ते - नन्दिग्रहिपच: । आदिश्च आदिश्च आदिश्च ते आदयः । नन्दिग्रहिपचादयो येषां ते नन्दिग्रहिपचादयः तेभ्यः नन्दिग्रहिपचादिभ्यः (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) । ल्युश्च णिनिश्च अच् च ते ल्युणिन्यच: ( इतरेतरयोगद्वन्द्व : ) । अर्थ:-नन्दयादिभ्यो ग्रह्यादिभ्यः पचादिभ्यश्च धातुभ्यः परे यथासंख्यं ल्यु- णिनि-अच: प्रत्यया भवन्ति उदा० - नन्दयादिभ्यो ल्युः - नन्दयतीति नन्दनः । वाशयतीति वाशनः । ग्रह्यादिभ्यो णिनिः- गृह्णातीति ग्राही । उत्सहते इति उत्साही । पचादिभ्योऽच् - पचतीति पचः । वदतीति वदः । ११७ " Jain Education International (१) नन्दयादय: - वा० नन्दिवाशिमदिदूषिसाधिवर्द्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्। नन्दनः । वाशन: । मदनः । दूषणः । साधनः । वर्धनः । शोभन: । रोचन: । वा० - सहितपिदमे: संज्ञायाम् । सहनः । तपनः । दमनः । जल्पनः। रमणः। दर्पण: । संक्रन्दनः । संकर्षणः । संहर्षणः । जनार्दनः । यवनः । मधुसूदनः । विभीषणः । लवणः । निपातनाण्णत्वम्। वित्तविनाशनः । कुलदमन: । शत्रुदमनः । इति नन्द्यादिः । 1 Į (२) ग्रह्मादयः । ग्रह । उत्सह । उद्वस । उद्भास। स्था। मन्त्र। सम्मर्द ।। ग्राही । उत्साही । उद्वासी । उद्भासी । स्थायी । मन्त्री | सम्मर्दी । वा० - रक्षश्रवसवपशां नौ निरक्षी । निश्रावी । निवासी । निवायी । निशायी । याचिव्याहृसंव्याहव्रजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी । असंव्याहारी। अव्राजी। अवादी । अवासी । वा० - अचामचित्तकर्तृकाणाम्। प्रतिषिद्धानामित्येव । अकारी । अहारी । अविनायी। वा०-विशयी विषयी देशे । विशयी | विषयी देश: । वा० - अभिभावी भूते । अभिभावी। अपराधी । उपरोधी। परिभावी। परिभवी । इति गृह्यादिः । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy