________________
६६
तृतीयाध्यायस्य प्रथमः पादः
(३) शकिसहोश्च।६६ । प०वि०-शकि-सहो: ६।२ (पञ्चम्यर्थे) च अव्ययपदम् ।
स०-शकिश्च सह च तौ शकिसहौ, तयो:-शकिसहो: (इतरेतरयोगद्वन्द्व:)।
अनु०-यत् इत्यनुवर्तते। अन्वय:-शकिसहिभ्यां च धातुभ्यां यत्। अर्थ:-शकिसहिभ्यां धातुभ्यां परो यत् प्रत्ययो भवति । उदा०- (शक्) शक्यम्। (सह्) सह्यम् ।
आर्यभाषा-अर्थ-(शकिसहो:) शक् और सह (धातो:) धातु से परे (यत्) प्रत्यय होता है।
उदा०- (शक्) शक्यम् । हो सकने योग्य। (सह्) सह्यम् । सहन करने योग्य ।
सिद्धि-(१) शक्यम् । 'शक्ल शक्तौ' (स्वा०प०) धातु से इस सूत्र से यत्' प्रत्यय है। यहां ऋहलोर्ण्यत्' (३।१।१२४) से ‘ण्यत्' प्रत्यय प्राप्त था। यहां 'शक विभाषितो मर्षणे (दि०प०) धातु का भी ग्रहण किया जाता है। (२) सह्यम् । षह मर्षणे' (भ्वा०आ०)। 'षह शक्यार्थे' (दि०प०)।
(४) गदमदचरयमश्चानुपसर्गे |१००। प०वि०-गद-मद-चर-यम: ५ ।१ च अव्ययपदम्, अनुपसर्गे ७।१।
स०-गदश्च मदश्च चरश्च यम् च एतेषां समाहारो गदमदचरयम्, तस्माद्-गदमदचरयमः (समाहारद्वन्द्वः)। न विद्यते उपसर्गो यस्य सोऽनुपसर्गः, तस्मिन्-अनुपसर्गे (बहुव्रीहि:)।
अनु०-यत् इत्यनुवर्तते। अन्वय:-अनुपसर्गे गदमदचरयमश्च धातोर्यत् ।
अर्थ:-अनुपसर्गेभ्य: उपसर्गरहितेभ्यो गदमदचरयमिभ्यो धातुभ्य: परो यत् प्रत्ययो भवति।
उदा०-(गद्) गद्यम्। (मद्) मद्यम्। (चर्) चर्यम्। (यम्). यम्यम्।
आर्यभाषा-अर्थ- (अनुपसर्गेभ्य:) उपसर्ग से रहित (गदमदचरयम:) गद्, मद्, चर्, यम् (धातो:) धातुओं से परे (यत्) यत् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org