________________
५१८
पाणिनीय-अष्टाध्यायी-प्रवचनम् वा गोत्रप्रत्ययस्य
(१२) उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ।६६। प०वि०-उपक-आदिभ्यः ५।३ अन्यतरस्याम् अव्ययपदम्, अद्वन्द्वे ७१।
स०-उपक आदिर्येषां ते उपकादय:, तेभ्य:-उपकादिभ्य: (बहुव्रीहिः)। न द्वन्द्व इति अद्वन्द्वः, तस्मिन्-अद्वन्द्वे (नञ्तत्पुरुषः)।
अनु०-लुक्, बहुषु, तेन, एव, गोत्रे इति चानुवर्तते।
अन्वय:-अद्वन्द्वे बहुषु उपकादिभ्यो गोत्रेऽन्यतरस्यां लुक्, तेनैव कृतं बहुत्वं चेत्।
अर्थ:-अद्वन्द्वे च समासे बहुष्वर्थेषु वर्तमानेभ्य: उपकादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽर्थे विहितस्य प्रत्ययस्य विकल्पेन लुम् भवति, यदि तेनैव गोत्रप्रत्ययेन कृतं बहुत्वं स्यात् ।
उदा०-उपकलमका:। भ्रष्टककपिष्ठला:। कृष्णाजिनसुन्दरा: । उपकादीनामेते त्रय: शब्दा: कृतद्वन्द्वास्तिककितवादिषु पठ्यन्ते। एतेषु पूर्वसूत्रेण गोत्रप्रत्ययस्य नित्यं लुग भवति। ___अद्वन्द्वे चानेन सूत्रेण विकल्पो विधीयते-उपका औपकायना वा। लमका लामकायना वा । भ्रष्टका भ्राष्टकयो वा। कपिष्ठला: कापिष्ठलयो वा । कृष्णाजिना: कार्णाजिनयो वा। कृष्णसुन्दरा: । कार्ष्णसुन्दरयो वा। परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च गोत्रप्रत्ययस्य विकल्पेन लुग् भवति
पण्डराक । अण्डारक। गडुक। सुपर्यक। सुपिष्ठ। मयूरकर्ण। खारीजङ्घ । शलाबल। पतञ्जल। कण्ठेरणि । कुषीतक। काशकृत्स्न। निदाघ । कलशीकण्ठ। दामकण्ठ। कृष्णपिङ्गल। कर्णक। पर्णक। जटिलक। बधिरक। जन्तुक। अनुलोम। अर्द्धपिङ्गलक। प्रतिलोम । प्रतान। अनभिहित।
आर्यभाषा-अर्थ-(अद्वन्द्वे) अद्वन्द्व समास में (बहुषु) बहुत अर्थों में वर्तमान (उपकादिभ्यः) उपक आदि प्रातिपदिकों से (गोत्रे) गोत्रापत्य अर्थ में विहित प्रत्यय का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org