________________
द्वितीयाध्यायस्य चतुर्थः पादः
४५६ उदा०-गावश्च अश्वाश्च एतेषां समाहारो गवाश्वम्। गावश्च अविकाश्च एतेषां समाहारो गवाविकम्, इत्यादिकम्। ____ गवाश्वम्। गवाविकम् । गवैडकम्। अजाविकम्। अजैडकम् । कुब्जवामनम् । कुब्जकैरातकम् । पुत्रपौत्रम् । श्वचाण्डालम् । स्त्रीकुमारम् । दासीमाणवकम्। शाटीपिच्छकम् । उष्ट्रखरम्। उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम्। सकृन्मेद:। मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोपलम् । दासीदासम् । कुटीकुटम्। भागवतीभागवतम् । इति गवाश्वप्रभृतयः।
__ आर्यभाषा-अर्थ-(गवाश्वप्रभृतीनि) गवाश्व आदि गण में पठित शब्द जिनमें एकवद्भाव किया हुआ है और जो द्वन्द्व समास रूप हैं, उन्हें साधु (ठीक) समझना चाहिये।
उदा०-गावश्च अश्वाश्च एतेषां समाहारो गवाश्वम् । गाय और घोड़ों का समुदाय। गावश्च अविकाश्च एतेषां समाहारो गवाविकम् । गाय और भेड़ों का संघ।
सिद्धि-गवाश्वम् । गो+जस्+अश्व+जस् । गो+अश्व । गवाश्व+सु । गवाश्वम् ।
यहां गौ और अश्व शब्द का द्वन्द्व समास किया हुआ है, यहां दीर्घत्व निपातन से समझना चाहिये। इस सूत्र से द्वन्द्व समास में एकवद्भाव होता है। ऐसे ही-गवाविकम् आदि। एकवद्भावविकल्पः(११) विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव
पूर्वापराधरोत्तराणाम् ।१२। प०वि०-विभाषा ११ वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुनिअश्ववडव-पूर्वापर- अधरोत्तराणाम् ६।३ ।
स०-वृक्षश्च मृगश्च तृणं च धान्यं च व्यञ्जनं च पशुश्च शकुनिश्च अश्ववडवं च पूर्वापरं च अधरोत्तरं च तानि-वृक्ष०अधरोत्तराणि, तेषाम्वृक्ष०अधरोत्तराणाम् (इतरेतरयोगद्वन्द्वः)।।
अनु०-एकवचनं द्वन्द्व इति चानुवर्तते।। अन्वय:-वृक्ष०उत्तराणां द्वन्द्वो विभाषैकवचनम् ।
अर्थ:- वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणां शब्दानां द्वन्द्वसमासो विकल्पेन एकस्यार्थस्य वाचको भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org