________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अधिकरण कारक में विहित क्त प्रत्यय के प्रयोग में षष्ठी विभक्ति का विधान किया गया है । यह उक्त प्रतिषेध का पूर्व अपवाद है।
षष्ठीप्रतिषेधः
४४२
(२१) न लोकाव्ययनिष्ठाखलर्थतृनाम् । ६६ ।
प०वि० - न अव्ययपदम् । ल-उ-उक - अव्यय-निष्ठा-खलर्थतृनाम् ६ । ३ ।
"
सo - खलोऽर्थ इति खलर्थ: खलर्थ इव अर्थो येषां ते खलर्था: (षष्ठीतत्पुरुषगर्भितबहुव्रीहि: ) । लश्च उश्च उकश्च अव्ययं च निष्ठा च खलर्थाश्च तृन् च ते-लोकाव्ययनिष्ठाखलर्थतृन:, तेषाम् - लोकाव्ययनिष्ठाखलर्थतृनाम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-षष्ठी इत्यनुवर्तते ।
अन्वयः-लोकाव्ययनिष्ठाखलर्थतृनां प्रयोगे षष्ठी न । अर्थ:-ल-उ-उक-अव्यय - निष्ठा-खलर्थ-तृनां प्रयोगे षष्ठी विभक्तिर्न
भवति ।
'ल' इत्यनेन ये लकारस्य स्थाने आदेशा भवन्ति ते गृह्यन्ते - शतृशानचौ, कानच् - क्वसू किकिनौ च ।
उदा० - (१) (ल) शतृ - ओदनं पचन् । (२) शानच् - ओदनं पचमानः । (३) कानच् - ओदनं पेचान: । ( ४ ) क्वसु - ओदनं पेचिवान् । (५) कि पपिः सोमम् । ( ६ ) किन्- ददिर्गा: ।
(७) उ-कटं चिकीर्षुः । ओदनं बुभुक्षुः । ( ८ ) उक - वाराणसीम् आगामुकः । (९) अव्ययम्-कटं कृत्वा । ओदनं भुक्त्वा । (१०) निष्ठा - देवदत्तेन कृतम् । ओदनं भुक्तवान् यज्ञदत्तः । ( ११ ) खलर्थ - ईषत् - कर: कट भवता । ईषत्पानः सोमो भवता ।
'तृन्' इति प्रत्याहारग्रहणम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे (३ । २ । १२४ ) इत्यारभ्य 'तृन्' (३ । २ । १५ ) इत्यस्य नकारपर्यन्तम् । तेन शानन्- चानश् - शतृ-तृनामपि प्रतिषेधे ग्रहणं क्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org