________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः - अन्य० आहियुक्ते शब्दे पञ्चमी । अर्थः-अन्य-आरात्-इतर ऋते-दिक्शब्द-अञ्चूत्तरपद-आच्आहिभिः संयुक्ते शब्दे पञ्चमी विभक्तिर्भवति ।
उदा०-अन्य:-(१) अन्यो देवदत्ताद् यज्ञदत्त: । अन्य इत्यर्थग्रहणं तेन पर्यायवाचिप्रयोगेऽपि पञ्चमी विभक्तिर्भवति । भिन्नो देवदत्ताद् यज्ञदत्तः । अर्थान्तरं देवदत्ताद् यज्ञदत्तः । विलक्षणो देवदत्ताद् यज्ञदत्तः ।
T
४१०
-
(२) आरात्-आरात्-शब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थै: षष्ठ्यन्यतरस्याम् (२। ३ । २४ ) इति विकल्पेन षष्ठ्यां पञ्चम्यां च प्राप्तायां पञ्चमी विभक्तिर्विधीयते । आराद् ग्रामाद् गुरुकुलम् । आराद् ग्रामाद् विद्यालय: ।
(३) इतर - इतर इति निर्दिश्यामनप्रतियोगी पदार्थ उच्यते । इतरो ब्राह्मणाद् राजन्यः।
(४) ऋते इत्यव्ययं वर्जनार्थे वर्तते ऋते ज्ञानान्न मुक्ति: । (५) दिक्शब्द:- पूर्वो ग्रामात् पर्वतः । उत्तरो ग्रामात् पर्वतः ।
(६) अञ्चूत्तरपद:- प्राक् ग्रामाद् नदी प्रवहति । प्रत्यग् ग्रामात् नदी प्रवहति । ननु चायमपि दिक्शब्द एव ? 'षष्ठ्यतसर्थप्रत्ययेन' (२ | ३ | ३० ) इति षष्ठीं वक्ष्यति, तस्यायं पुरस्तादपकर्ष: ।
(७) आच् - दक्षिणा ग्रामाद् गुरुकुलम् । उत्तरा ग्रामाद् आश्रमः । (८) आहि-दक्षिणाहि ग्रामाद् गुरुकुलम् । उत्तराहि ग्रामाद् आश्रमः ।
आर्यभाषा-अर्थ-(अन्य० आहियुक्ते ) अन्य, आरात्, इतर ऋते, दिक्शब्दः, अञ्चूत्तरपद, आच् और आहि इनसे संयुक्त शब्द में (पञ्चमी) पञ्चमी विभक्ति होती है। उदा०- - (१) अन्य:- अन्यो देवदत्ताद् यज्ञदत्तः । यज्ञदत्त देवदत्त से भिन्न है। यहां अन्य के पर्यायवाची शब्दों का भी ग्रहण किया जाता है। भिन्नो देवदत्ताद् यज्ञदत्त: । अर्थान्तरं देवदत्ताद् यज्ञदत्तः । विलक्षणो देवदत्ताद् यज्ञदत्त: । इनका अर्थ पूर्ववत् है ।
(२) आरात्-आरात् शब्द दूर और अन्तिक (पास) अर्थ में है। उसमें दूरान्तिकार्थः षष्ठ्यन्यतरस्याम्' (२।३।३४) से विकल्प से षष्ठी और पंचमी विभक्ति प्राप्त थी, यहां पञ्चमी विभक्ति का विधान किया गया है। आरात् ग्रामाद् गुरुकुलम् । गुरुकुल गांव से दूर है। आरात् ग्रामाद् विद्यालय: । विद्यालय गांव से निकट है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org