________________
१३६
अन्वयः - श्वशुरः श्वश्र्वा शेष: ।
अर्थः- श्वशुरशब्दः श्वश्रूशब्देन सह विकल्पेन शिष्यते । पक्षे श्वश्रूशब्दो
निवर्तते ।
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा० - श्वश्रूश्च श्वशुरश्च तौ - श्वशुरौ । श्वश्रूश्च श्वशुरश्च तौ श्वश्रूश्वशुरौ ।
आर्यभाषा - अर्थ - ( श्वश्रवा ) श्वश्रू शब्द के साथ ( श्वशुरः) श्वशुर शब्द (अन्यतरस्याम्) विकल्प से ( शेषः) शेष रहता है।
उदा० - श्वश्रूश्च श्वशुरश्च तौ श्वशुरौ । श्वश्रूश्व श्वशुरश्च तौ श्वश्रूश्वशुरौ । श्वशुरौ = सास और ससुर ।
सर्वैः सह त्यदादीनि
(६) त्यदादीनि सर्वैर्नित्यम् ॥७२॥
प०वि०-त्यदादीनि १।३ सर्वैः ३ । ३ नित्यम् १ ।१ । स०-त्यद् आदिर्येषां तानीमानि - त्यदादीनि ( बहुव्रीहि: ) । अनु० - 'शेष:' इत्यनुवर्तते ।
अन्वयः - त्यदादीनि सर्वैर्नित्यं शेषः । अर्थ:
:- त्यद्-आदीनि शब्दरूपाणि सर्वैः शब्दैः सह नित्यं शिष्यन्ते । उदा० - (तद् ) स च देवदत्तश्च - तौ । (यद्) यश्च देवदत्तश्च - यौ । आर्यभाषा - अर्थ - (सर्वैः) सब शब्दों के साथ (त्यद् - आदीनि ) त्यद् आदि शब्द (नित्यम्) सदा (शेषः) शेष रहते हैं ।
उदा०- (तद्) स च देवदत्तश्च - तौ । (यद्) यश्च देवदत्तश्च - यौ । तौ = वह और देवदत्त | यौ= जो और देवदत्त ।
त्यदादिगण-त्यद् । तद् । यद् । एतद् । इदम् । अदस्। एक। द्वि । युष्मद् । अस्मद् । भवतु । किम् । ( सर्वाद्यन्तर्गत: ) ।
विशेष- यदि त्यद् आदि शब्दों का ही परस्पर कथन किया जाये तो वहां जो परवर्ती शब्द होता है, वह शेष रहता है- स च यश्च यौ । यश्च कश्च - कौ । पशुसंघेषु स्त्री
(१०) ग्राम्यपशुसंघेष्वतरुणेषु स्त्री । ७३ । प०वि०- ग्राम्य- पशुसंघेषु ७ । ३ अतरुणेषु ७ । ३ स्त्री १ । १ । सo - ग्रामे भवा ग्राम्याः (तद्धितवृत्तिः) । ग्राम्याश्च ते पशव इति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org