________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०- ब्राह्मणी च ब्राह्मणश्च तौ ब्राह्मणौ । ब्राह्मणी और ब्राह्मण दोनों । कुक्कुटी च कुक्कुश्च तौ - कुक्कुटौ । मुर्गी और मुर्गा दोनों |
१३४
स्वसृदुहितृभ्यां सह भ्रातृपुत्रौ -
(५) भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ ६८ ।
प०वि० - भ्रातृ-पुत्रौ १२ स्वसृ - दुहितृभ्याम् ५।२। सo - भ्राता च पुत्रश्च तौ भ्रातृपुत्रौ (इतरेतरयोगद्वन्द्व : ), स्वसा च दुहिता च ते स्वसृदुहितरौ ताभ्याम् - स्वसृदुहितृभ्याम् (इतरेतरयोगद्वन्द्वः) । अनु० - 'शेष' इत्यनुवर्तते ।
अन्वयः - भ्रातृपुत्रौ स्वसृदुहितृभ्यां शेषः ।
अर्थ:- भ्रातृपुत्रौ शब्दौ यथासंख्यं स्वसृदुहितृभ्यां शब्दाभ्यां सह शिष्येते । उदा०- (भ्राता) स्वसा च भ्राता च तौ भ्रातरौ (पुत्रः ) दुहिता च पुत्रश्च तौ पुत्रौ ।
आर्यभाषा - अर्थ - (स्वसृ-दुहितृभ्याम् ) स्वसा और दुहिता शब्द के साथ यथासंख्य (भ्रातृपुत्रौ ) भ्राता और पुत्र शब्द (शेषः) शेष रहता है अर्थात् स्वसा के साथ भ्राता और दुहिता के साथ पुत्र |
उदा०-(भ्राता) स्वसा च भ्राता च तौ भ्रातरौ । बहन और भाई । (पुत्र) दुहिता च पुत्रश्च तौ पुत्रौ । पुत्री और पुत्र ।
अनपुंसकेन सह नपुंसकं वा चैकवद्भावः
(६) नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । ६६ । प०वि०-नपुंसकम् १।१ अनपुंसकेन ३ । १ एकवत् अव्ययपदम्, च अव्ययपदम्, अस्य ६ । १ अन्यतरस्याम् ७ ।१ ।
सo-न नपुंसकम् इति अनपुंसकम् तेन - अनपुंसकेन ( नञ्तत्पुरुषः ) । एकेन तुल्यमिति एकवत् ( तद्धितवृत्ति: ) ।
अनु० - 'शेष:, तल्लक्षणश्चेदेव विशेष:' इत्यनुवर्तते ।
अन्वयः - नपुंसकमनपुंसकेन शेष:, तल्लक्षणश्चेदेव विशेषः अस्य चान्यतरस्यामेकवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org