SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [चर्यो देशः] चर् । चर्यते इति चर्यः । अनेन यप्र० । प्र० सि । [आचर्यं भवता] आचर्यते । अनेन यप्र० । [आचर्यो देशः] आचर्यते । अनेन यप्र० । प्र० सि । [अभिचार्यम्] अभिचर्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । “णिति' (४।३।५०) पान्त्यवृद्धिः आ । [आचार्यो गरुः] आचर्यते विनयार्थ विद्याग्रहणार्थं वा शिष्यैरित्याचार्यः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यण्प्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमती-गद्य-विक्रेये ॥ ५।१।३२ ॥ [वयोपसर्याऽवद्यपण्यम् ] वर्या च उपसर्या च अवद्यश्च पण्यं च = वयोपसर्याऽवद्यपण्यम् । [ उपेयर्तुमतीगीविक्रेये ] उपेया च ऋतुमती च गर्दाश्च विक्रेयं च = उपेयर्तुमतीगीविक्रेयम्, तस्मिन् । [वर्या उपेया चेद्भवति] 'वृश् सम्भक्तौ' (१५६७) वृ । वियत इति । अनेन वर्या निपातः । 'इं गतौ' (११) इ, उपपूर्व० । उपेयत इति । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'उपसर्गस्यानिणेधेदोति' (१।२।१९) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । वरयोग्यात् चेद्भवति । __ [वृत्याऽन्या ] 'वृकुट् वरणे' (१२९४) वृ । वियते । 'दृ-वृग्-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प्र० → य । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [वार्या ऋत्विजः] वियत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । [उपसर्या गौः ] 'सं गतौ' (२५) स, उपपूर्व० । उपस्रियते । अनेन निपातः । गर्भग्रहणे प्राप्तकाला गौरित्यर्थः । [उपसार्या शरदि मथुरा ] 'सं गतौ' (२५) सृ, उपपूर्व० । उपस्रियते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'आत्' (२।४।१८) आप्प्र० → आ । ___ [अवयं गहूं चेत् ] 'वद व्यक्तायां वाचि' (९९८) वद्, नपूर्व० । नोद्यत इति । अनेन अवद्यनिपातः । सि-अम् । गहूं चेत् । [अवयं पापम् ] नोद्यते । अनेन निपातः । पापमित्यर्थः । [अवद्या हिंसा ] अवद्या पूर्ववत् । हिंसा-गर्खेत्यर्थः । [अनुद्यम् ] नोद्यत इति अनुद्यम् । 'नाम्नो वदः क्यप् च' (५।१।३५) क्यप्प्र० → य । 'यजादि-वचेः किति' (४।१।९७) य्वृत् व० → उ० । 'अन् स्वरे' (३।२।१२९) अन् । [अवाद्या] वद् । उद्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० → आ । न वाद्या = अवाद्या । प्रथमा सि । 'दीर्घझ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [पण्यं विक्रेयं चेत् ] 'पणि व्यवहार-स्तुत्योः' (७१०) पण् । पणाय्यते । अनेन पण्यनिपातः । सि-अम् । विक्रेयं चेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy