SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [अस्ति विद्यते वा भोक्तुम् ] 'असक् भुवि' (११०२) अस् । वर्त० तिव् । 'विदिच् सत्तायाम्' (१२५८) विद् । वर्त० ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'भोक्तुम् पूर्ववत् । समर्थोऽलम् - [प्रभवति ईष्टे वा भोक्तुम् ] प्रपूर्व० 'भू सत्तायाम्' (१) भू । वर्तः तिव् । 'कर्त्तर्यन'० (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'ईशिक् ऐश्वर्ये' (१११६) ईश् । वर्त० ते । 'यज-सृज-मृज-राज'० (२।१६८७) श० → ष० । 'तवर्गस्य श्चवर्ग'० (१३।६०) त० → ट० । 'भोक्तुम् पूर्ववत् । समर्थार्थप्रतीतावपि भवति - [द्रष्टुं चक्षुः] 'दृशं प्रेक्षणे' (४९५) दृश् । दर्शनं = द्रष्टुम् । अनेन तुम्प्र० । 'अः सृजि-दृशोऽकिति' (४|४|११) अकारागमः । 'इवर्णादेरस्वे'० (१।२।२१) रत्वम् । 'यज-सृज-मृज'० (२।१।८७) श० → ष० । 'तवर्गस्य श्चवर्ग' (१।३।६०) त० → ट०, चक्षुः । [योधुं धनुः] 'युधिच् सम्प्रहारे' (१२६०) युध् । योधनं = योद्धम् । अनेन तुम्प्र० । 'अधश्चतुर्थात् तथोधः' (२।११७९) तस्य ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द०, धनुः । अनयोर्द्वयोर्भवतीत्यादेरुत्तरपदस्य समर्थार्थस्याध्याहारेण प्रतिपत्तिः । [भोक्तुं वष्टि] भोजनं = भोक्तुम् । अनेन तुम्प्र० । 'वशक् कान्तौ' (११०१) वश् । वर्तमाना तिव् । 'यज-सृजमृज-राज'० (२।१।८७) श० → ष० । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → ट० । समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च सामर्थ्याच्छकादिष्वर्हपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु सम्बन्धनीयम् । अतादर्थ्यार्थमक्रियोपपदार्थं चेदं प्रस्तूयत इति ॥छ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां व्याकरणबृहद्वृत्तौ कृतस्य चतुर्थपादविवरणं समाप्तमिति ॥छ। ॥छ। ॥ श्री ॥ छ। संवत् १९५१ मिति आसोज वद १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy