________________
३३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ ॥ ५॥४८४ ॥ [कृगः] कृग् पञ्चमी ङसि । [अव्ययेन] अव्यय तृतीया टा । [अनिष्टोक्तौ] जन इष्टं = अनिष्टम्, अनिष्टस्य उक्तिरनिष्टोक्तिः, तस्याम् । [क्त्वाणमौ] क्त्वा च णम् च = क्त्वाणमौ ।
[ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल ! नीचैः कृत्वा, नीचैःकृत्य कथयसि, किं तर्हि नीचैर्वृषल ! कारं वृषल ! नीचैःकारं कथयसि, उच्चै म प्रियमाख्येयम् ] ब्राह्मण-आमन्त्र्ये सि । 'अदेतः स्यमोलक' (१।४।४४) सिलुक् ।
पुत्र-प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । युष्मद् षष्ठी ङस् । 'डे-ङसा ते-मे' (२।१।२३) ते ।
'जनैचि प्रादुर्भावे' (१२६५) जन् । जायते स्म = जातः । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आः खनि-सनि-जनः' (४।२।६०) न० → आ० ।
किम् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
तद् । तस्मिन् अनद्यतने काले = तर्हि । 'अनद्यतने हिः' (७।२।१०१) हिप्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
वृषल आमन्त्र्ये सि । नीच्चै(चै)स् ‘क्रियाविशेषणात्' (२।२।४१) सि(अम्) । 'अव्ययस्य' (३।२।७) अम्लुप् । नीचैः करणं पूर्वं = नीचैः कृत्वा-नीचे कृत्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः, कथयसि ।
नीचैः करणं पूर्वं = नीचैर्वृषल ! कारम् । अनेन णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् ।
[किं तर्हि वृषल ! उच्चैः कृत्वा, उच्चैःकृत्य कथयसि, किं तर्हि उच्चैर्वृषल ! कारं वृषलोच्चैःकारं कथयसि, नीचैर्नामाप्रियमाख्येयम् ] उच्चैः करणं पूर्वं = उच्चैः कृत्वा-उच्चैःकृत्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य'० (४।४।११३) तोऽन्तः ।
[उच्चैः कृत्वाऽऽचष्टे ब्राह्मण ! पुत्रस्ते जात इति] उच्चैस् अम् । 'अव्ययस्य' (३।२।७) अम्लुप् । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ।
[नीचैः कृत्वाऽऽचष्टे ब्राह्मण ! कन्या ते गर्भिणी जातेति ] नीचैस् अम् । 'अव्ययस्य' (३।२७) अम्लुप् । करणं पूर्व = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ।
[किं तर्हि वृषल ! मन्दं कृत्वा कथयसि] मन्दं पूर्ववत् । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० →त्वा ।
श० म० न्या० - अनिष्टोक्तिः - प्रियस्योच्चैरप्रियस्य नीचैःकथनमिष्टम्, तद्विपरीतमनिष्टम्, तथा चाप्रियस्योच्वैरुक्तिः प्रियस्य नीचैरनिष्टोक्तिरिति फलितम्, तदनुकूलमेव लक्ष्येषु सङ्गतिः स्पष्टीकृत्य प्रदर्शयिष्यते । तथा चात्रानिष्टा चासौ उक्तिश्चेति व्याख्येयम्, न त्वनिष्टस्योक्तिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org