SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ॥ [स्मे ] स्म सप्तमी ङि । [ पञ्चमी ] पञ्चमी प्रथमा सि । कृत्यानां 'सप्तमी चोर्ध्वमौहूर्तिके' (५।४।३०) इत्यादिना प्राप्तायाः सप्तम्याश्चापवादः || || अधीष्टौ || ५|४ | ३२ ॥ स्मे पञ्चमी ॥ ५।४।३१ ॥ [ अधीष्टौ ] अध्येषणं अधीष्टिः, तस्याम् । ऊर्ध्वमौहूर्तिक इति निवृत्तम्, पृथग्योगात् । 'विधि-निमन्त्रणा'० (५।४।२८) इत्यादिना प्राप्तायाः सप्तम्या अपवादः । कोमलामन्त्रणे च (वा) । [ अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष, शिक्षा: प्रतिपद्यस्व ] अङ्ग इति प्रक प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । = 'विदक् ज्ञाने ' (१०९९) विद् । वेत्तीति विद्वन् ! 'वा वेत्तेः क्वसुः' (५/२/२२) क्वसुप्र० वस्, तस्यामन्त्रणं हे विद्वन् ! | आमन्त्र्ये सि। 'ऋदुदितः' (१।४।७० ) नोऽन्तः । 'दीर्घड्याब् ' ० (१।४।४५) सिलुक् । 'पदस्य ' (२२११८९) तलोपः । २९७ अणूनि व्रतानि = अणुव्रतानि । द्वितीया शस् । 'नपुंसकस्य शिः ' (१|४|५५) शि० → इ० । 'स्वराच्छौ' (१२४/६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । 'रक्ष पालने' (५६७) रक्ष् । पञ्चमी हि । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलुक् । शिक्षा द्वितीया शस् । प्रति 'पर्दिच् गतौ' (१२५७) पद् । पञ्चमी स्व । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र० य ॥छ । काल- वेला - समये तुम् वाऽवसरे || ५|४|३३ ॥ [ कालवेलासमये ] कालश्च वेला च समयश्च = कालवेलासमयम्, तस्मिन् । [तुम् ] तुम् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [वा ] वा प्रथमा सि । [ अवसरे] अवसर सप्तमी ङि । अवसरन्त्यस्मिन्नित्यवसरः । 'पुंनाम्नि घः' (५।३।१३०) घप्र० अ । 'नामिनो गुणोऽक्ङिति (४|३|१) गु० अर् । 'प्रैषा - ऽनुज्ञा' ० (५।४।२९) इत्यादिना प्राप्तेऽयं विकल्प इति । Jain Education International [ कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुम् ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुज्यतां - भोक्तव्यस्य च यद्वा भोजनस्य = भोक्तुम् । अनेन, तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-ज: क- गम्' (२११८६) ज०ग० । 'अघोषे '० (१|३|५०) ग० क० । षष्ठ्येकवचनं ङस् । 'अव्ययस्य' ( ३।२७) ङस्लुप् । कालो वेला समयो वा । वावचनाद् यथाप्राप्तं च - [ कालो भोक्तव्यस्य ] भुज्यते = भोक्तव्यस्तस्य । तव्यप्र० । षष्ठ्येकवचनं ङस् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy