________________
पञ्चमाध्यायस्य चतुर्थः पादः॥
२९१
[काकिन्या हेतोरपि मातुः स्तनं छिन्द्यात्] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । सप्तमी यात् । 'रुधां स्वराच्नो'० (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलुक् । अत्र 'क्षेपेऽपि-जात्वोर्वर्त्तमाना' (५।४।१२) इति वर्तमानां बाधित्वा परत्वादनेन सप्तम्येव भवति ।
[चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्द्यात् ] 'भिदंपी विदारणे' (१४७७) भिद् । सप्तमी यात् । 'रुधां स्वरानो'. (३।४।८२) श्नप्र० → न । 'ना-ऽस्त्योर्मुक्' (४।२।९०) अकारस्य लुक् । अत्र तु 'शेषे भविष्यन्त्य इति भविष्यन्ती बाधित्वा परत्वादनेन सप्तम्येव भवति ॥छ।।
अयदि श्रद्धाधातौ नवा ॥५।४।२३ ॥
[अयदि] न यद् = अयद्, तस्मिन् ।' [श्रद्धाधातौ] श्रद्धाया हे(धातुः = श्रद्धाहे(धा)तुस्तस्मिन् । [नवा] नवा प्रथमा सि । पूर्वेण नित्यं प्राप्ते विकल्पः ।
[श्रद्दधे, संभावयामि, अवकल्पयामि, भुञ्जीत भवान्, पक्षे-भोक्ष्यते भवान्, अभुक्त भवान्, अभुङ्क्त भवान्] श्रत् 'दुधांग्क् धारणे च' (११३९) धा । वर्तमाना ए । 'हवः शिति' (४।१।१२) "धा"द्विः । 'हूस्वः' (४।१।३९) हुस्वः । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) धस्य दः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । 'भुञ्जीत' पूर्ववत् (५।४।२०) ।
भुज् । भविष्यन्ती स्यते । 'भुनजोऽत्राणे' (३।३।३७) इत्यनेनात्मनेपदम् ।
भुज् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हुस्वाल्लुगनिटस्तथोः' (४।३७०) सिच्लुक । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (१।३।५०) ग० → क० । 'अड् धातोरादि'० (४।४।२९) अट् ।
भुज् । ह्यस्तनी त । 'रुधां स्वराच्नो '० (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलुक् । 'च-ज: क-गम्' (२।१२८६) ज० → ग० । 'अघोषे'० (११३५०) ग० - क० । 'म्नां धुड्'० (१।३।३९) अनुस्वारः (न० → ङ०) । अड् धातोरादि'० (४।४।२९) अट् ।
[संभावयामि यद् भुञ्जीत भवान् ] यद् ‘क्रियाविशेषणात्' (२।२।४१) अम् । 'अनतो लुप्' (१।४५९) अम्लुप्। अग्रेतने सापि क्रियातिपत्तिः
[संभावयामि नाभोक्ष्यत भवान्] भुज् । क्रियातिपत्तिः स्यत । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (१।३।५०) ग० → क० । 'नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् । क-षयोगे क्ष० ॥छ।
सतीच्छार्थात् ॥ ५।४।२४ ॥ [सति] सत् सप्तमी ङि । [इच्छार्थात् ] इच्छा अर्थो यस्य सः = इच्छार्थः, तस्मिन्(तस्मात् ) । विध्यादि अभावार्थोऽयमारम्भः ।
[इच्छेत् ] 'इषत् इच्छायाम्' (१४१९) इष् । सप्तमी यात् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'यः सप्तम्या:' (४।२।१२२) या० → इ० । 'गमिषद्यमश्छ:' (४।२।१०६) षस्य छ० । 'स्वरेभ्यः' (१।३।३०) छकारस्य द्विः । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छस्य च । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org