SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ॥ २८९ शेषे भविष्यन्त्ययदौ ॥ ५।४।२० ॥ [शेषे] शेष सप्तमी ङि । [भविष्यन्ती] भविष्यन्ती प्रथमा सि । [अयदौ] न यदि = अयदिस्तस्मिन् । [चित्रमाश्चर्यमन्धो नाम पर्वतमारोक्ष्यति] 'रुहं जन्मनि' (९८८) रुह्, आपूर्व० । भविष्यन्ती स्यति । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'हो धुट-पदान्ते' (२।१२८२) ह० → ढ० । 'ष-ढोः कस्सि ' (२।१।६२) 'ढ० → क० । 'नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् । क-षयोगे क्ष० । [बधिरो नाम व्याकरणं श्रोष्यति ] 'श्रृंट् श्रवणे' (१२९६) श्रु । भविष्यन्ती स्यति । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ। __ [मूको नाम धर्म कथयिष्यति ] 'कथण् वाक्यप्रबन्धे' (१८८०) कथ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलुक् । भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट् (४।४।३२) इट् । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१२।२३) अय् । 'नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् ।। [आश्चर्यं यदि स भुञ्जीत ] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । 'भुनजोऽत्राणे' (३।३।३७) आत्मनेपदम् । सप्तमी ईत । 'रुधां स्वराच्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलुक् । 'म्नां धुड्' (१।३।३९) न० → ज० । [चित्रं यदि सोऽधीयीत ] 'इंङ्क् अध्ययने (११०४) इ, अधिपूर्व० । सप्तमी ईत । 'धातोरिवर्णोवर्णस्येयुत्'० (२।१।५०) इय् । 'समानानां' ० (१।२।१) दीर्घत्वम् । केवल यदिशब्दयोगः । अत्राऽश्रद्धाप्यस्तीति 'जातु-यद्-यदा-यदौ' (५।४।१७) सप्तमी ॥छ। ___ सप्तम्युता-ऽप्योर्बाढे ॥ ५।४।२१ ॥ [सप्तमी ] सप्तमी प्रथमा सि । [ उताऽप्योः] उतश्च अपिश्च = उतापी, तयोः = उताऽप्योः । सप्तमी ओस् । [बाढे ] बाढ सप्तमी ङि । [उत कुर्यात् ] उत प्रथमा सि । 'अव्ययस्य' (३७) सिलुप् । 'डुकंग करणे' (८८८) कृ । सप्तमी यात् । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अकारस्य उ० । 'कृगो यि च' (४।२।८८) उलुक् । [अपि कुर्यात् ] अपि प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । 'कुर्यात्' पूर्ववत् । बाढं करिष्यतीत्यर्थः । [उत दण्डः पतिष्यति ?] उत प्रथमा सि । दण्ड प्रथमा सि । 'पत्तृ गतौ' (९६२) पत् । भविष्यन्ती स्यति । 'स्ताद्यशितो'० (४।४।३२) इट् । [अपिधास्यति द्वारम् ] अपिपूर्व० 'डुधांगा धारणे च' (११३९) धा । भविष्यन्ती स्यति । द्वार द्वितीया अम् । प्रश्नः पिधानं च यथाक्रमं गम्यते । वोतात् प्रागिति निवृत्तम् । इतः प्रभृति सप्तमीनिमित्ते सति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy