SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ [ क्षेपे] क्षेप सप्तमी ङि । [ अपिजात्वोः ] अपिश्च जातुश्च = अपिजातू, तयोः = अपिजात्वोः । [ वर्त्तमाना ] वर्त्तमाना प्रथमा सि । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । भूत इति निवृत्तम् । क्रियातिपत्ति: संबंधाद्भूतकालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । क्षेपेऽपि जात्वोर्वर्त्तमाना ॥ ५।४।१२ ॥ [ अपि तत्रभवान् जन्तून् हिनस्ति ? धिग् गर्हामहे ] स भवान् = तत्रभवान् । 'भवत्वायु'० (७२।९१) त्रप्प्र० ('त्रप् च' (७|२|९२) त्रप्प्र०) । पूज्य इत्यर्थः । अपि संभावने । 'हिसु हिंसायाम् ' (१४९४ ) हिस् । वर्त्तमाना तिव् । 'रुधां स्वरानो नलुक् च' (३|४|८२) श्नप्र० न । [ जातु तत्रभवान् भूतानि हिनस्ति ? धिग् गर्हामहे ] जातु प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । कदाचिदित्यर्थः ॥छ । = [ कथमि] कथम् सप्तमी ङि । [ सप्तमी ] सप्तमी प्रथमा सि । [च] च प्रथमा सि । [ वा ] वा प्रथमा सि । [ कथं नाम तत्रभवान् मांसं भक्षयेत् ? मांसं भक्षयति ? धिग् गर्हामहे, अन्याय्यमेतत्, पक्षे - अबभक्षत्, अभक्षयत्, भक्षयांचकार, भक्षयिता, भक्षयिष्यति ? ] 'भक्षण् अदने' (१७१७) भक्ष् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो' ० ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । ‘यः सप्तम्याः' (४।२।१२२) या० इ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२६) ए । भक्षयति-वर्त्तमाना तिव् । न्यायादनपेतं = न्याय्यम् । 'न्यायार्थादनपेते' (७|१|१३) यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । यस्य परगमनं न न्याय्यं अन्याय्यम् । सि-अम् । एतत् प्रथमा सि । - कथमि सप्तमी च वा ॥ ५।४।१३ ॥ पक्षे 'भक्षण् अदने' (१७१७) भक्ष् । 'चुरादि ' ० ( ३|४|१७) णिच्प्र० । अद्यतनी दित् । 'णि श्रि-दु-स्रुकमः कर्तरि ङ:' (३|४|५८) ङप्र० अ । 'द्विर्धातुः परोक्षा ङे प्राक् ० (४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय - तुर्ययो: पूर्वी' (४|१|४२) भ० ब० । 'णेरनिटि' (४।३८३) णिच्लोपः । 'अड् धातोरादि' ० (४।४।२९) अट् । Jain Education International भक्ष् । 'चुरादि' ० (३|४|१७) णिच्प्र० । परोक्षा णव् । 'धातोरनेकस्वरादाम् ' ० ( ३।४।४६ ) णव्० → आम्० । ‘आमन्ताऽऽल्वाऽऽय्येनावय्' (४।३।८५) णिचोऽय् । भक्षयिता श्वस्तनी ता । भक्षयिष्यति - भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । 'नामिनो' ० (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति - For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy