________________
पञ्चमाध्यायस्य चतुर्थः पादः॥
२८३
-
-
-
--
'सप्तम्यताऽप्योर्बाढे' (५।४।२१) इत्यारभ्य सप्तम्यर्थेऽनेन विधानम्, ततः प्राक् 'वोतात् प्राक' (५।४।११) इति विकल्पो वक्ष्यते ॥छा।
वोतात् प्राक् ॥ ५।४।११ ॥ [वा] वा प्रथमा सि । [ उतात्] उत पञ्चमी ङसि । [प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[कथं नाम संयतः सन्ननागाढे तत्रभवान् आधायकृतमसेविष्यत ? धिग् गर्हामहे, कथं सेवेत ? धिग् गर्हामहे ] किम् । केन प्रकारेण = कथम् । 'कथमित्थम्' (७।२।१०३) "कथं"निपात्यते ।
नामशब्दः कोमलामन्त्रणे । सि । 'अव्ययस्य' (३।२७) सिलुप् ।
'यमं उपरमे' (३८६) यम्, सम्पूर्व० । संयच्छतीति संयतः । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'यमि-रमि-नमि-गमि'० (४।२।५५) मलुक् ।
'असक् भवे(भुवि)' (११०२) अस् । अस्तीति सन् । 'शत्रानशावेष्यति'० (५।२।२०) शतृप्र० → अत् । 'श्नाऽस्त्योर्मुक्' (४।२।९०) अलुक् । प्रथमा सि । 'ऋदुदितः' (१२४७०) नोऽन्तः ।
न अगाढं = अनागाढम्, तस्मिन् = अनागाढे - निःप्रयोजने इत्यर्थः ।
स भवान् = तत्रभवान् । 'त्रप् च' (७।२।९२) इति तच्छब्दात् त्रप्र० →त्र । 'आ द्वेरः' (२।११४१) द्० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । तत्रभवान्-पूज्य इत्यर्थः ।
आपूर्व० 'डुधांग्क् धारणे च' (११३९) धा । आधानं = आधाय । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप्प्र० → य । उद्दिश्य इत्यर्थः । 'डुकंग करणे' (८८८) कृ। क्रियते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त ।
'षेवक सेवने' (८१८) षेव् । 'षः सोऽष्ट्यै'० (२।३।९८) सेव् । 'कथमि सप्तमी च वा' (५।४।१३) इत्यनेन सप्तम्यर्थतायां क्रियातिपत्तिः स्यत । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
धिग प्रथमा सि । 'अव्ययस्य' (३।२७) सिलप । . 'गर्हि कुत्सायाम्' (८६०) गर्ह । वर्तमाना महे । 'कर्त्तर्यन'० (३।४।७१) शव् । 'म-व्यस्याः' (४।२।११३) है। →हॉ० ।
सेव् । सप्तमी ईत । 'कर्तर्यन' ० (३।४।७१) शव् । 'अवर्णस्ये'० (१।२।६) ए।
[कालो यदभोक्ष्यत भवान्] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । क्रियातिपत्तिः स्यत । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (११३५०) ग० → क० । नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् । क-षयोगे क्ष० । 'अड् धातोरादि'० (४।४।२९) अट् । 'भुनजोऽत्राणे' (३३३३३७) इत्यनेनात्मनेपदम् ।
अत्र 'सप्तमी यदि' (५।४।३४) इत्यनेन सप्तम्यर्थतायां सत्यां ततो 'भूते' (५।४।१०) क्रियातिपत्तिः, एष्यर्थे नित्यमेव क्रियातिपत्तिः ॥छ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org