________________
पञ्चमाध्यायस्य चतुर्थः पादः ॥
२८१
'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) णत्वम् । अग्रहायण एव = आग्रहायणी । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । 'अणजेयेकण'० (२।४।२०) ङी । 'अस्य ङ्यां लुक्' २।४।८६) अलुक् ततः पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस्० ।
'डुकंग करणे' (८८८) कृ । भविष्यन्ती स्यामस् । इट् । 'नामिनो'० (४।३।१) गु० अर । 'नाम्यन्तस्था'. (२।३।१५) षत्वम् ।
'डुदांग्क् दाने' (११३८) दा । भविष्यन्ती स्यामहे । यत्र अहःशब्दो रात्रिशब्दो वा प्रयुज्यते तत्र अहोरात्रत्वम् ।
[योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे] पञ्चभिरधिका दश = पञ्चदश । पञ्चदशानां रात्रीणां समाहारः = पञ्चदशरात्रः । अत्र कालसम्बन्धिरात्रेण अहोरात्ररूपोऽर्वाग्भागः । 'संख्यातैक-पुण्य-वर्षादीर्घाच्च रात्ररत्' (७३।११९) अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
'युजूपी योगे' (१४७६) युज् । युञ्जमः स्म । 'गत्यर्था-ऽकर्मक' (५।१।११) क्तप्र० → त । 'इंङ् अध्ययने' (११०४) इ, अधिपूर्व० । श्वस्तनी तास्महे । 'नामिनो'० (४।३।१) गु० ए ।
[योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे] त्रिंशतो रात्रीणां समाहारः = त्रिंशद्रात्रः । 'संख्यातैकपुण्य'० (७।३।११९) अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अर्धमासः । अत्र कालोऽहोरात्ररूपः ।
जत्रिविधेऽप्यहोरात्रसंबन्धे मा भूत् । बहुवचनं कालस्येति सामानाधिकरण्यभ्रमनिरासार्थम् । कालस्य किम्भूतस्य ? अनहोरात्रस्येत्येवं सामानाधिकरण्यं निषिध्यते । कालसामानाधिकरण्ये हि व्यावृत्तिः(तौ), प्रथमोदाहरणेऽपि सूत्रप्रवृत्तौ श्वस्तनीनिषेधः स्यात् कालस्याऽनहोरात्ररूपत्वात्, वैयधिकरण्ये तु त्रिप्रकारेऽपि कालसंबंधे व्यावृत्तिर्भवति ॥छ।।
परे वा ॥ ५।४८ ॥
[परे ] पर सप्तमी ङि । [वा] वा प्रथमा सि ।
[आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा] परस्मिन् देशे वसति = परस्तात् । 'पराऽवरात् स्तात्' (७२।११६) स्तात्प्र० ।
प्रबन्धासत्तिविवक्षायामपि परत्वादयमेव विकल्पः ॥छा।
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः ॥ ५।४।९ ॥
[सप्तम्यर्थे ] सप्तम्या अर्थः = सप्तम्यर्थस्तस्मिन् ।
[क्रियातिपत्तौ] क्रियाया अतिपत्तिः = क्रियातिपत्तिस्तस्याम्
卐 उपरि द्विविधेऽहोरात्रसंबंधे दर्शितम् । तृतीयाविधा तु एवम् - योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र द्विः सक्तून् पातास्म इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org