________________
२७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[आशंस्ये] 'आङः शसुङ् इच्छायाम्' (८५३) आशंस् । आशंस्यत इति आशंस्यम्, तस्मिन् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य ।
[वा] वा प्रथमा सि ।
अनागतस्य प्रियस्यार्थस्याशंसनं प्राप्तुमिच्छा = आशंसा, तद्विषय आशंस्यः, आशंस्यस्य भविष्यत्वादयमतिदेशः । वाग्रहणं यथाप्राप्तं च । __ [उपाध्यायश्चेदागमत्, एते तर्कमध्यगीष्ममहि, उपाध्यायश्चेदागतः, एतैस्तर्कोऽधीतः, उपाध्यायश्चेदागच्छति, एते तर्कमधीमहे, पक्षे-उपाध्यायश्चेदागमिष्यति, एते तर्कमध्येष्यामहे, उपाध्यायश्चेदागन्ता, एते तर्कमध्येतास्महे ] उप-अधिपूर्व० 'इंफू अध्ययने (११०४) इ । उपेत्य अधीयतेऽस्मादिति उपाध्यायः । 'इङोऽपादाने तु टिद् वा' (५।३।१९) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
अ(आ)गमत् । 'लदिद्-द्युतादि-पुष्यादेः परस्मै' (३।४।६४) अप्र० । तर्क द्वितीया अम् ।
अधिपूर्व० 'इंङ् अध्ययने' (११०४) इ । अद्यतनी महि । वाऽद्यतनी क्रियातिपत्त्योर्गीङ्' (४।४।२८) इ० → गीङ् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । अनेन च भूतप्रत्यय उभयस्याऽप्याशंस्य विद्यमानत्वात् अत्र आशंस्यस्य भविष्यत्वात् भविष्यत्प्रत्ययप्राप्त्या भूताः प्रत्यया विहिता अनेन सूत्रेण अग्रेतने तु वर्तमानाः प्रत्ययाश्च ।
पक्षे - आगमिष्यति 'गमोऽनात्मने' (४।४।५१) इट् । अत्र लाभेनाशीविषयस्याविष्करणाभावात् आशी:-पञ्चम्यौ न भवतः ।
अधि 'इंङ् अध्ययने' (११०४) इ । भविष्यन्ती स्यामहे । 'नामिनो' ० (४।३।१) गु० ए । आगन्ता-श्वस्तनी ता । सामान्यस्यातिदेशे विशेषस्यानतिदेशात् शस्तनी - परोक्षे न भवतः ॥छ।।
क्षिप्रा-ऽऽशंसाऽर्थयोर्भविष्यन्ती-सप्तम्यौ ॥ ५।४।३ ॥ [क्षिप्राऽऽशंसाऽर्थयोः] क्षिप्रं च आशंसा च = क्षिप्राऽऽशंसे, क्षिप्राऽऽशंसेऽर्थो(ौँ) ययोः ते = क्षिप्राऽऽशंसार्थे, तयोः = क्षिप्राऽऽशंसाऽर्थयोः । सप्तमी ओस् ।
[भविष्यन्तीसप्तम्यौ] भविष्यन्ती च सप्तमी च = भविष्यन्तीसप्तम्यौ ।
अथ क्षिप्रार्थे आशंसार्थे चोपपदे आशंस्य एवार्थे वर्तमानाद्धातोर्भविष्यन्ती-सप्तम्यौ विधीयेते, तत्राऽऽशंस्यस्य भविष्यत्वाद्भविष्यन्ती सिद्धैव, 'विधि-निमन्त्रणा'० (५।४।२८) इति सप्तम्यपि प्रार्थनारूपत्वात्, किमर्थमिदमुच्यते इत्याह'भूतवच्चा'० (५।४।२) इत्यस्याऽपवादः ।
[ उपाध्यायश्चेदागच्छति, आगमत्, आगमिष्यति, आगन्ता, क्षिप्रमाशु त्वरितमरं शीघ्रमेते सिद्धान्तमध्येष्यामहे] क्षिप्रं 'क्रियाविशेषणात्' (२।२।४१) अम् । एवं - आशु । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । एवं - अरम् - शीघ्रम् । सिद्धो अन्तो-निश्चयो यत्र सः = सिद्धान्तः, तम् = सिद्धान्तम् । द्वितीया अम । अध्येष्यामहे ।। 'भूतवच्चाऽऽशंस्ये वा' (५।४।२) इत्यस्य प्राप्ते क्षिप्रार्थे भविष्यन्तीविहिता आशंसार्थे सप्तमी इति च पृथक् सूत्रद्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org