SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ २६५ [ विसरः] 'सं गतौ' (२५) सृ, विपूर्व० । विसरन्ति जना अस्मिन्निति विसरः । [ प्रतिसरः] 'सं गतौ' (२५) सृ, प्रतिपूर्व० । प्रतिसरत्यस्मिन्निति प्रतिसरः । सर्वत्र अनेन घप्र० → अ । 'नामिनो'० (४।३।१) गु० अर् । [विचयनी] विपूर्व० 'चिंगट् चयने' (१२९०) चि । विचीयतेऽनयेति विचयनी । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [प्रधानम्] प्रधीयते विकारोऽस्मिन्निति प्रधानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अ । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । [प्रहरणो दण्डः ] प्रपूर्व० 'हंग् हरणे' (८८५) हृ । प्रहियतेऽनेनेति प्रहरणो दण्डः । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'नामिनो'० (४।३।१) गु० अर् । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । [प्रसाधनः ] 'षिधूंच संराद्धौ' (११८५) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध्, प्रपूर्व० । प्रसिध्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'सिध्यतेरज्ञाने' (४।२।११) इकारस्य आत्त्वम् । प्रसाध्यतेऽनेनेति प्रसाधनः । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'णेरनिटि' (४।३८३) णिगलोपः । [दोहनः] 'दुहीक क्षरणे' (११२७) दुह । दुहन्तं प्रयुङ्क्ते । 'प्रयोक्त'० (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । दोह्यते जनेनाऽस्मिन्निति दोहनः । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'णेरनिटि' (४।३।८३) णिग्लोपः । घकार ‘एकोपसर्गस्य च घे' (४।२।३४) इत्यत्र विशेषणार्थः ॥छ।। गोचर-संचर-वह-व्रज-व्यज-खला-ऽऽपण-निगम-बक-भग-कषा-ऽऽकष-निकषम् ॥ ५।३।१३१ ॥ [गोचरसंचरवहनजव्यजखलाऽऽपणनिगमबकभगकषाऽऽकषनिकषम् ] गोचरश्च संचरश्च वहश्च व्रजश्च व्यजश्च खलश्च आपणश्च निगमश्च बकश्च भगश्च कषश्च आकषश्च निकषश्च - गोचरसंचरवहव्रजव्यजखलाऽऽपणनिगमबकभगकषाऽऽकषनिकषम् । [गोचरो देशः] गो 'चर भक्षणे च' (४१०) चर् । गावश्चरन्त्यस्मिन्निति गोचरो देशः । व्युत्पत्तिमात्रं चेदम् । विषयस्य तु संज्ञा - [अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्] सर्व सम्पूर्व० "विदक् ज्ञाने' (१०९९) विद् । सर्वं संविदन्ति = सर्वसंविदस्तेषाम् । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेकान्तात्मकं वस्तु गोचरः । [संचरः] 'चर भक्षणे च' (४१०) चर्, सम्पूर्व० । संचरन्तेऽनेनेति संचरः। [वहः वृषस्कन्धदेशः ] 'वहीं प्रापणे' (९९६) वह् । वहन्ति भारं तेन = वहः वृषस्कन्धदेशः । [व्रजः] धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - ध्रजु (१३५) - वज (१३६) - 'व्रज गतौ' (१३७) व्रज् । व्रजत्यस्मिन्निति व्रजः - गोकुलम् । [व्यजः] विपूर्व० 'अज क्षेपणे च' (१३९) अज् । व्यजत्यनेनेति व्यजः । अनेन घप्र० → अ । 'अघक्यबलच्यजेवीं' (४।४।२) इत्यनेन वी प्राप्तावपि निपातनात वीभावाभावश्च । प्रेरणदण्ड उच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy