SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । 'अदं भक्षणे' (१०५९) अद् । अद्यते स्म अस्मिन्निति । अनेन क्तप्र० → त । 'यपि चाऽदो जग्ध्' (४।४।१६) अद्० → जग्ध० । 'अधश्चतुर्थात् तथोधः' (२।११७९) त० → ध० । 'धुटो धुटि स्वे वा' (१।३।४८) धलुक् । सि-अम् । [इदं तैर्जग्धम् ] अद् । अद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यपि चाऽदो जग्ध्' (४|४|१६) अद्० → जग्ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'धुटो धुटि स्वे वा' (१।३।४८) धलुक् । सि-अम् । [इह तैर्जग्धम् ] अद् । अदनम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । 'यपि चाऽदो जग्ध्' (४|४|१६) अद् → जग्ध० । 'अधश्चतुर्थात् तथोधः' (२।१।७९) त० → ध० । 'धुटो धुटि स्वे वा' (१।३।४८) धलुक् । सि-अम् । [इदमेषामभ्यवहृतम् ] 'हंग् हरणे' (८८५) हू, अभि-अवपूर्व० । अभ्यवहियते स्म अस्मिन्निति । अनेन क्तप्र० →त । [इदं तैरभ्यवहृतम्] अभ्यवहियते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । [इह तैरभ्यवहृतम्] अभ्यवहरणम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । [इदं तेषामशितम्] 'अशश् भोजने' (१५५८) अश् । अश्यते स्म अस्मिन्निति । अनेन क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । सि-अम् । [इदं तैरशितम्] अश् । अश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । सि-अम् । [इह तैरशितम्] अश् । अशनम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । सि-अम् । ___ [इह ते अन्नं प्राशिताः] प्र-'अशश् भोजने' (१५५८) अश् । प्राशितुमारभते(न्ते) स्म अस्मिन्निति । अनेन क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । प्रथमा जस् । [इह ते मधु प्रलीढाः] प्र-'लिहीक् आस्वादने' (११२९) लिह् । प्रलेढुमारभन्ते स्म अस्मिन्निति । अनेन क्तप्र० →त । 'हो धुट्-पदान्ते' (२।११८२) ह. →ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे च-टवौँ' (११३६०) ध० → ढ० । 'ढस्तड्डे (११३।४२) ढलोपः - पूर्वस्वरस्य दीर्घः । प्रथमा जस् । [इदं तेषां यातम्] इदम् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप । तद् षष्ठी आम् । 'आ द्वेरः' (२।११४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० → साम्० । 'एद् बहुस्भोसि' (१।४।४) अ० → ए० । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । 'यांक प्रापणे' (१०६२) या । यायते स्म अस्मिन्निति । अनेन क्तप्र० → त । सि-अम् । [इदमहेः सप्तम् ] 'सृप्लं गतौ' (३४१) सृप । सृप्यते स्म अस्मिन्निति । अनेन क्तप्र० → त । सि-अम् । [इदमेषामासितम्] 'आसिक् उपवेशने' (१११९) आस् । आस्यते स्म अस्मिन्निति । अनेन क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । सि-अम् । P.अदन्ति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy