________________
२६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अग्निकुण्डस्योपासनं सुखम् ] अग्निकुण्ड षष्ठी ङस् । उप 'आसिक् उपवेशने' (१११९) आस् । उपास्ते = उपासनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन, सुखम् ।
[शिष्येण गुरोः स्नापनं सुखम् ] शिष्य तृतीया टा । गुरु षष्ठी ङस् । 'ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । स्नान्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'अर्ति-री-व्ली-ही'. (४।२।२१) पोऽन्तः । स्नाप्यते = स्नापनं सुखम् । 'नन्द्यादिभ्योऽनः' (५।१५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । सि-अम् । स्नापयतेन गुरुः कर्ता, किं तर्हि ? कर्म ।
[पुत्रस्य परिष्वञ्जनं सुखम् ] पुत्रस्य 'ष्वञ्जित् सङ्गे' (१४७१) ष्वञ्ज । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वच्, परिपूर्व० । परिष्वज्यते = परिष्वञ्जनम्, सुखम् । 'स्वञ्जश्च' (२।३।४५) षत्वम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । पुत्रस्य स्पर्शात्(पुत्रस्पर्शः) न शरीरस्य सुखं, कि तहि ! मानसी प्रीतिः, अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् ।
[कण्टकानां मर्दनम् ] 'मृदश् क्षोदे' (१५५०) मृद् । मृद्यते = मर्दनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
व्यावृत्त्युदाहरणेषु सर्वत्रासमासः प्रत्युदाहार्यः ।
अथवा तत इति तस्मिन् = ततः । 'आद्यादिभ्यः' (७।२।८४) तसुप्र० → तस् तदा पृषोदरादित्वात् दलोपः । 'आ द्वेरः' (२।११४१) इति तु न, तसादौ चेत्यधिकारात् । एके तु न(त)सादावपीच्छन्ति ।
[राजभोजनाः शालयः] राजन् 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । राज्ञा भुज्यन्ते = राजभोजनाः शालयः । अनेन अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा जस् ।
[राजाच्छादनाः प्रावाराः] राजन् 'छदण अपवारणे' (१९६४) छद् । 'चुरादि'० (३।४।१७) णिच्प्र० । 'णिति' ॥३५०) उपान्त्यवृद्धिः आ । राजा आच्छाद्यते यैः ते = राजाच्छादनाः । अनेन अनट्प्र० → अन । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा जस् । प्र-आङ्पूर्व० 'वृग्ट वरणे' (१२९४) वृ । प्राव्रियन्ते = प्रावाराः । 'वगो वस्त्रे' (५।३।५२) इत्यलो विकल्पपक्षे 'भावा-ऽकर्बोः' (५।३।१८) घनप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) ७० आर् । प्रथमा जस् ।
[राजपरिधानानि वासांसि] राजन् 'डुधांग्क् धारणे च' (११३९) धा, परिपूर्व० । राज्ञा परिधीयन्ते यानि तानि = राजपरिधानानि । अनेन अनट्प्र० → अन । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । वासस् प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक् (१।४।६६) नोऽन्तः ॥छ।।
रम्यादिभ्यः कर्तरि ॥ ५।३।१२६ ॥ [रम्यादिभ्यः] रमिरादिर्येषां ते = रम्यादयः, तेभ्यः = रम्यादिभ्यः । पञ्चमी भ्यस् ।
[कर्तरि] कर्तृ सप्तमी ङि ।
[रमणी] 'रमि क्रीडायाम्' (९८९) रम् । रममाणं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । रमयतीति रमणी । अनेन अनट्प्र० → अन । 'णेरनिटि' (४।३८३) णिग्लोपः । 'अणजेयेकण्-न'० (२।४।२०) ङी । रमत इति कृते णकतचादयोऽनेन बाधिताः सन्तो बाहुलकादेव भवन्ति । एवमन्येषाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org