________________
पञ्चमाध्यायस्य तृतीयः पादः॥
२५१
___ [श्रूः, श्रूतिः] श्रिवूच् गति-शोषणयोः' (११६५) श्रिव् । श्रिवणं-श्रूयते वा = श्रूः । अनेन क्विप्प्र० । एवम्-श्रूतिः । क्तिप्र० → ति । 'मव्यवि-श्रिवि'० (४।१।१०९) उपान्त्याकारेण सह वस्य ऊट → ऊ । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । __ [मूः, मूतिः ] 'मव बन्धने' (४८०) मव् । मवनं-मूयते वा = मूः । अनेन क्विप्र० । एवम्-मूतिः । क्तिप्र० → ति । 'मव्यवि-श्रिवि'० (४।१।१०९) उपान्त्याकारेण सह वस्य ऊट → ऊ । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ___[नुत्, नुतिः ] ‘णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेो नः' (२।३।९७) नु । नवनं-नूयते वा = नुत् । अनेन क्विप्प्र० । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । एवम्-नुतिः । क्तिप्र० → ति ।
[शक्, शक्तिः ] 'शक्लृट् शक्तौ' (१३००) शक् । शकनं-शक्यते वा = शक् । 'अप्रयोगीत्' (१।१।३७) क्विपुलोपः । एवम्-शक्तिः । क्तिप्र० → ति ॥छ।
व्यतिहारेऽनीहादिभ्यो ञः ॥ ५।३।११६ ॥
[व्यतिहारे ] व्यतिहरणं = व्यतिहारः । घञ्प्र०, तस्मिन् । [अनीहादिभ्यः ] ईह आदिर्येषां ते = ईहादयः, न ईहादयः = अनीहादयस्तेभ्यः = अनीहादिभ्यः । पञ्चमी भ्यस् । [ञः] ब प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । परस्परस्य कृतप्रतिकृतिय॑तिहारः । बाहुलकाद्भावे क्त्यादीनामपवादे अप्रत्ययः ।
[व्यावक्रोशी, व्याक्रोशी] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश्, वि-अवपूर्व० । परस्परमाक्रोशनं = व्यवक्रोशा। अनेन अप्र० → अ । व्यवक्रोशैव = व्यावक्रोशी - व्याक्रोशी । 'नित्यं ज-जिनोऽण' (७३।५८) अण्प्र० । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णलुक् । 'अणजेयेकण्न'० (२।४।२०) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) इत्यादिना ऐकारो न भवति, 'न ब-स्वाङ्गादेः' (७।४।९) इति निषेधात् ।
[व्यावमोषी] 'मुषश् स्तेये' (१५६३) मुष, वि-अवपूर्व० । परस्परमामोषणं = व्यवमोषा । व्यवमोषैव = व्यावमोषी । 'नित्यं ब-जिनोऽण' (७।३।५८) अण्प्र० । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णलुक् । 'अणजेयेकण-न'० (२।४।२०) ङी । 'अस्य ड्यां लुक् (२।४।८६) अलुक् । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) इत्यादिना ऐकारो न भवति, 'न ज-स्वाङ्गादेः' (७४।९) इति निषेधात् ।
[व्यावहासी] 'हसे हसने' (५४५) हस्, वि-अवपूर्व० । परस्परमाहसनं = व्यवहासा । व्यवहासैव = व्यावहासी । 'नित्यं ज०' (७३।५८) अण्प्र० । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अवर्णलुक् । 'अणजेयेकण-न'० (२।४।२०) की । 'अस्य ड्यां लुक' (२।४।८६) अलुक । 'य्वः पदान्तात् प्र इत्यादिना ऐकारो न भवति, 'न ब-स्वाङ्गादेः' (७।४।९) इति निषेधात् ।
[व्यावलेखी] 'लिखत् अक्षरविन्यासे' (१३३६) लिख्, वि-अवपूर्व० । परस्परमालेखनं = व्यवलेखा । व्यवलेखैव = व्यावलेखी । 'नित्यं ब-जिनोऽण' (७।३।५८) अण्प्र० । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णलुक् । 'अणजेयेकण-न'० (२।४।२०) ङी । 'अस्य ड्यो लुक्' (२।४।८६) अलुक् । 'यवः पदान्तात् प्रागैदौत्' (७४।५) इत्यादिना ऐकारो न भवति, 'न ज-स्वाङ्गादेः' (७।४।९) इति निषेधात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org