________________
२५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ भूः, भूतिः ] 'भू सत्तायाम् ' (१) भू । भवनं भूयते वा = भूः । एवम् भूतिः ।
[कण्डूः कण्डूया ] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू इति सौत्रो धातुः । ' धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० → य । कण्डूयनं - कण्डूयते वा = कण्डूः । अनेन क्विप्प्र० । 'अतः ' ( ४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । ‘अप्रयोगीत् ' (१।१२।३७) क्विप्लोपः । एवम् कण्डूया । 'शंसि - प्रत्ययात् ' ( ५|३|१०५) अप्र० । 'अतः' (४।३।८२) अलुक् । 'आत्' (२।४।१८) आप्प्र० आ ।
[ कृत्, कृतिः] 'डुकृंग् करणे' (८८८) कृ । करणं क्रियते वा = कृत् । क्विप्प्र० । 'ह्रस्वस्य' ० (४|४|११३) तोऽन्तः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । एवम् कृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र०
ति ।
[ भित्, भित्तिः ] 'भिपी विदारणे' (१४७७) भिद् । भेदनं भिद्यते वा = भित् । अनेन क्विप्प्र० । एवम्भित्तिः । क्तिप्रति । 'अघोषे प्रथमोऽशिट : (१।३।५०) द०
त० ।
=
[ छित्, छित्तिः ] 'छिपी द्वैधीकरणे' (१४७८) छिद् । छेदनं - छिद्यते वा एवम् - छित्तिः । क्तिप्रति । 'अघोषे '० (१।३।५०) द० त० ।
नुत्, नुत्तिः ] 'दंत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेर्णो नः' (२२३९७) नुद् । नोदनं - नुद्यते वा = नुत् । एवम्-नुत्तिः ।
छित् । अनेन क्विप्प्र० ।
[ दृक्, दृष्टिः ] 'दृशृं प्रेक्षणे' (४९५) दृश् । दर्शनं दृश्यते वा = दृक् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'ऋत्विज् दिश्-दृश्' ० (२२११६९) श० → ग० । 'विरामे वा' (१।३।५१) ग०क० । एवम् दृष्टिः । क्तिप्रति । 'यज सृज- मृज-राज-भ्राज' ० (२२१८७) श० ष० । 'तवर्गस्य श्चवर्ग' ० (१३/६०) त०ट० ।
[ नक्, नष्टिः ] 'नशौच् अदर्शने' (१२०२) नश् । नशनं नश्यते वा = नक् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१|१| ३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'नशो वा' (२।१।७०) श०ग० । 'विरामे वा' (१।३।५१) ग० क० । एवम् नष्टिः । क्तिप्र० → ति । 'यज- सृज - मृज-राज-भ्राज' ० (२२११८७) श० ष० । 'तवर्गस्य श्चवर्ग' ० ( १।३।६०) त०ट० ।
[ युक्, युक्तिः ] +‘युजुंपी योगे' (१४७६) युज् | योजनं = युक् । एवम् - युक्तिः । क्तिप्रति । 'च-ज: कगम्' (२२११८६) ज०ग० । 'अघोषे ' ० ( १|३|५०) गक० ।
[जू, जूर्तिः ] 'ज्वर रोगे' (१०५४) ज्वर् । ज्वरणं-जूर्यते वा = जूः । अनेन क्विप्प्र० । एवम् - जूर्तिः । क्तिप्रति । 'मव्यवि- श्रिवि-ज्वरि- त्वरेरुपान्त्येन' । (४|१|१०९) उपान्त्याकारेण सह वस्य ऊट् 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः ।
ऊ ।
[ तू, तूर्ति ] 'ञित्वरिष् संभ्रमे' (१०१०) त्वर् । त्वरणं तूर्यते वा = तूः । अनेन क्विप्प्र० । एवम् - तूर्तिः । क्तिप्रति । 'मव्यवि श्रिवि-ज्वरि-त्वरेरुपान्त्येन' (४।१।१०९) उपान्त्याकारेण सह वस्य ऊट् ऊ । 'अप्रयोगीत्' (१|१|३७) क्विप्लोपः ।
Jain Education International
[ऊः, ऊतिः ] 'अव रक्षण - गति - कान्ति- तृप्त्यवगमन-प्रवेश- श्रवण- स्वाम्यर्थ - याचन-क्रियेच्छा - दीप्त्यवाप्त्याss लिङ्गन - हिंसा - दहन - भाव- वृद्धिषु' (४८९) अव् । अवनं-ऊयते वा = ऊः । अनेन क्विप्प्र० । एवम् ऊतिः । क्तिप्र० → ति । 'मव्यवि - श्रिवि ' ० (४।१।१०९) उपान्त्याकारेण सह वस्य ऊट् ऊ । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 5 बृहद्वृतौ तुत् तुत्तिः । श० म० न्या० -
'युजिंच् समाधौ ।
For Private Personal Use Only
www.jainelibrary.org