________________
पञ्चमाध्यायस्य तृतीयः पादः॥
२४३
[सेधा सत्त्वम् ] 'षिधू गत्याम्' (३२०) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सेधनं = सेधा सत्त्वम् । अनेन अप्र० → अ - गुणश्च ए।
[मेधा बुद्धिः] मेधृग् सङ्गमे च' (९०९) मेध् । मेधनं = मेधा बुद्धिः । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ ।
[गोधा प्राणिविशेषो दोस्त्राणं च] 'गुधच् परिवेष्टने' (१९५५) गुध् । गोधनं = गोधा प्राणिविशेषो दोस्त्राणं च । अनेन अप्र० → अ - गु०ओ । 'आत्' (२।४।१८) आपप्र० → आ ।
भिदादिराकृतिगणः, तेन चूडेत्यादि सिद्धम् । अकृतस्य क्रिया चैव, प्राप्तेर्बाधनमेव च । अधिकार्थविवक्षा च, त्रयमेतन्निपातनात् ॥१॥ ॥छा।
भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः ॥५।३।१०९ ॥ [भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः] भीषिश्च भूषिश्च चिन्तिश्च पूजिश्च कथिश्च कुम्बिश्च चर्चिश्च स्पृहिश्च तोलिश्च दोलिश्च = भीषिभूषिचिन्तिपूजिकथिकुम्बिचचिस्पृहितोलिदोलयः, तेभ्यः = भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः । पञ्चमी भ्यस् ।
ण्यन्तत्वात् 'णि-वेत्त्यास-श्रन्थ०' (५।३।१११) इत्यादिना अने प्राप्ते वचनम् ।
[भीषा] 'बिभीक् भये' (११३२) भी । बिभ्यतं प्रयुङ्क्ते । 'प्रयोक्त'० (३।४।२०) णिगप्र० । “बिभेतेीष च' (३।३।९२) भी० → भीष । भीषणं = भीषा । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[भूषा] 'भूष अलङ्कारे' (१७५६) भूष । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । भूषणं = भूषा । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[चिन्ता] 'चितुण स्मृत्याम्' (१६४५) चित् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) चिन्त् । 'चुरादि'० (३।४।१७) णिचप्र० । चिन्तनं = चिन्ता । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[पूजा] 'पूजण् पूजायाम्' (१५८६) पूज । 'चुरादि'० (३।४।१७) णिच्प्र० । पूजनं = पूजा । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[कथा] 'कथण् वाक्यप्रबन्धे' (१८८०) कथ । 'चुरादि'० (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलुक् । कथनं = कथा । अनेन अङ्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[कुम्बा] 'कुबुण आच्छादने' (१६७७) कुब् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । 'चुरादि'० (३।४।१७) णिचप्र० । कुम्बनं = कुम्बा । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'लोकात्' (११३) अकारेण संहिता । 'आत्' (२।४।१८) आप्प्र० → आ ।
श० म० न्या० - स्वमते 'मेधृग सङ्गमे च' चकारान्मेधा - हिंसयोः, अस्यात्र न ग्रहणं गुणस्य सिद्धत्वात्, किन्तु अस्य स्थाने केचित् मिधृग् इति पठन्ति, तस्य ग्रहणं, सौत्रो वा मिधातुस्तस्य ग्रहणमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org