SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । _[हारा मानम्, हतिरन्या ] 'हंग् हरणे' (८८५) हृ । हरणं = हारा मानम् । अनेन अप्र० → अ-वृद्धिश्च आर् । एवम् - हृतिरन्या । क्तिप्र० → ति । [धारा प्रपातः खड्गादेर्वा, धृतिरन्या ] + 'धृग् धारणे' (८८७) धृ । धरणं = धारा प्रपातः खड्गादेर्वा । अनेन अप्र० → अ-वृद्धिश्च आर् । एवम् - धृतिरन्या । क्तिप्र० → ति । [तारा ज्योतिः, तीणिरन्या] 'तृ प्लवन-तरणयोः' (२७) तु । तरणं = तारा ज्योतिः । अनेन अप्र० → अवृद्धिश्च आर् । एवम् - तीणिरन्या । क्तिप्र० → ति । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घः । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । [गुहा पर्वतकन्दरा औषधिश्च, गूढिरन्या ] 'गुहौग् संवरणे' (९३५) गुह् । गृहनं = गुहा पर्वतकन्दरा । अनेन अप्र० + अ । 'आत्' (२।४।१८) आपप्र० → आ । एवम - गढिरन्या । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'हो धुट-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य'. (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः - पूर्वस्वरस्य दीर्घः । [कुहा नाम नदी, कुहनाऽन्या] कुहनं = कुहा नाम नदी । 'कुहणि विस्मापने' (१९४०) कुह । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलुक् । कुहनं = कुहनाऽन्या । "णि-वेत्त्यास श्रन्थ-घट्ट-वन्देरनः' (५।३।१११) अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [वशा स्नेहनद्रव्यं धातुविशेषश्च, उष्टिरन्या] 'वशक् कान्तौ' (११०१) वश् । वशनं = वशा स्नेहनद्रव्यं धातुविशेषश्च । अनेन अप्र० । वशनं = उष्टिरन्या । क्तिप्र० → ति । 'वशेरयङि' (४।१८३) वृत् वस्य उ० । 'यज-सृज-मृज'० (२।१।८७) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवौँ (१३।६०) त० → ट० । [वपा मेदोविशेषः, उप्तिरन्या] 'डुवपी बीजसन्ताने' (९९५) वप् । वपनं = वपा मेदोविशेषः । अनेन अप्र० → अ । वपनं = उप्तिरन्या । क्तिप्र० → ति । 'यजादि-वचेः किति' (४।१७९) वृत् वस्य उ० । [तुला उन्मानम् ] 'तुलण् उन्माने' (१६९२) तुल । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । तोलनं = तुला उन्मानम् । अनेन अप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आपप्र० → आ । [क्षपा रात्रिः] 'क्षपण् दौर्बल्ये(प्रेरणे) (१८९१) क्षप । 'चुरादि'० (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलुक् । क्षपणं = क्षपा रात्रिः । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ । [क्षिया आचारभ्रंशः] "क्षि क्षये' (१०) क्षि । क्षयणं = क्षिया आचारभ्रंशः । अनेन अप्र० → अ । 'संयोगात्' (२।१।५२) इय् । 'आत्' (२।४।१८) आप्प्र० → आ । रिखि-लिखिः समानार्थौ सौत्रो धातुः । [ रेखा राजिः ] रेखणं = रेखा राजिः । अनेन अप्र० → अ । गु० ए । [लेखा राजिः ] लेखनं = लेखा राजिः । अनेन अप्र० → अ । गु० ए । [शोभा कान्तिः] 'शुभि दीप्तौ' (९४७) शुभ् । शोभनं = शोभा कान्तिः । अनेन अप्र० → अ - गुणश्च ओ। + श० म० न्या० - 'धृङ् अविध्वंसने' अतोऽङि धारा प्रपातः खङ्गादेर्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy