SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । यु-पू-द्रोर्घञ् ॥५॥३५४ ॥ [युपूद्रोः] युश्च पूश्च द्रुश्च = युपूद्व, तस्मात् । [घञ्] घञ् प्रथमा सि । वेति निवृत्तम्, पृथग्योगात् । [उद्यावः] 'युक् मिश्रणे' (१०८०) यु, उत्पूर्व० । उद्यवनं = उद्यावः । अनेन अलोऽपवादो घबप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [उत्पावः ] 'पूग्श् पवने' (१५१८) पू, उत्पूर्व० । उत्पवनं = उत्पावः । अनेन अलोऽपवादो घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [उद्मावः ] इं (११) - दुं (१२) - ‘टुं गतौ' (१३) द्रु, उत्पूर्व० । उद्मवणं = उद्मावः । अनेन अलोऽपवादो घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । ग्रहः ॥५॥३५५ ॥ [ग्रहः ] ग्रह पञ्चमी ङसि । [ उद्ग्राहः ] 'ग्रहीश् उपादाने' (१५१७) ग्रह, उत्पूर्व० । उद्ग्रहणं = उद्ग्राहः । अनेन अलोऽपवादो घञ्प्र० → अ । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ग्रहः ] ग्रहणं = ग्रहः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । [विग्रहः ] विग्रहणं = विग्रहः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ॥छ।। न्यवाच्छापे ॥५॥३५६ ॥ [न्यवात् ] निश्च अवश्च = न्यवम्, तस्मात् । [शापे] शाप सप्तमी ङि । [निग्राहो ह ते वृषल ! भूयात् ] निग्रहणं = निग्राहः । अनेन घ० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । युष्मद् षष्ठी ङस् । 'डे-ङसा ते-मे' (२।१।२३) "ते"आदेशः ।। [अवग्राहो ह ते जाल्म ! भूयात्] अवग्रहणं = अवग्राहः । अनेन घ० → अ । “णिति' (४।३।५०) उपान्त्यवृद्धिः आ । युष्मद् षष्ठी ङस् । 'डे-ङसा ते-मे' (२।१।२३) "ते" आदेशः । [निग्रहश्चौरस्य ] निग्रहणं = निग्रहश्चौरस्य । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । [अवग्रहः पदस्य] अवग्रहणमवग्रहः पदस्य । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ ॥छ।। प्राल्लिप्सायाम् ।।५।३५७ ॥ [प्रात्] प्र पञ्चमी ङसि ।। [लिप्सायाम् ] लिप्सा सप्तमी ङि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy