SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २१३ [अवात्] अव पञ्चमी ङसि । [ग्रहः ] ग्रह पञ्चमी ङसि । वर्षविघ्नो वृष्टिविष्कंभः, स च प्राप्तकालस्य वर्षस्य कुतश्चित् निमित्तादभावः । [अवग्रहः, अवग्राहः ] अव 'ग्रहीश् उपादाने' (१५१७) ग्रह् । अवग्रहणमवग्रहः । अनेन अल्प्र० → अ । एवम् - अवग्राह: । घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वृष्टेः प्रतिबन्ध इत्यर्थः । [अवग्रहः पदस्य ] अवग्रहणमवग्रहः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ, पर(द)स्य । [अवग्रहोऽर्थस्य ] अवग्रहणमवग्रहः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ, अर्थस्य ॥छ।। प्राद रश्मि-तुलासूत्रे ॥५।३५१ ॥ [प्रात्] प्र पञ्चमी ङसि । [रश्मितुलासूत्रे ] रश्मिश्च तुलासूत्रं च = रश्मितुलासूत्रम्, तस्मिन् । [प्रगहः, प्रगाहः] प्रगृह्यत इति प्रग्रहः । अनेन अल्प्र० → अ । एवम् - प्रग्राहः । घञ्प्र० → अ । अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते । अन्यस्तु [ प्रग्रहः ] प्रग्रहणं = प्रग्रहः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ॥छ।। वृगो वस्त्रे ॥५।३५२ ॥ [वृगः] वृग् पञ्चमी ङसि । [वस्त्रे ] वस्त्र सप्तमी ङि । [प्रवरः, प्रावारः] 'वृगट वरणे' (१२९४) वृ, प्रपूर्व० । प्रवृण्वन्ति तमिति प्रवरः । अनेन अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । एवम् - प्रावारः । 'भावा-ऽकोंः ' (५।३।१८) घजप्र० , अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः आ । अन्ये तु प्राङ् पूर्व एव वृणोतिः स्वभावाद् वस्त्रविशेषे वर्तते, तेन - [प्रावारः, प्रावरः] प्रावरणम् । घजा मतान्तरेऽल् द्वितीये । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'नामिनो'० (४।३।१) गु० अर् । [प्रवरो यतिः] प्रवरणं = प्रवरो यतिः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० अर् ॥छ। उदः श्रेः ॥५।३५३ ॥ [उदः] उद्(त) पञ्चमी ङसि । [श्रेः] श्रि पञ्चमी ङसि । [उच्छ्रयः, उच्छ्रायः] उत्पूर्व०, 'श्रिग् सेवायाम्' (८८३) श्रि । उच्छ्रयणं = उच्छ्रयः । अनेनैव अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (शरा२३) अय् । एवम् - उच्छ्रायः । 'भावा-ऽकोंः ' (५।३।१८) घप्र० + अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ॥छा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy