________________
पञ्चमाध्यायस्य तृतीयः पादः ॥
[ समाह्वयः प्राणिद्यूतम् ] सम्-आङ्पूर्व० 'डेंग् स्पर्द्धा - शब्दयो:' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । समाहूयन्ते द्यूतकारा अत्रेति समाह्वयः प्राणिद्यूतम् । अनेन अल्प्र०
ह्वयादेशश्च ।
[ आह्वयो नाम ] आहूयन्तेऽनेनेति आह्वयः । अनेन अल्प्र०
ह्वयादेशश्च नाम ।
=
सर्वत्र अनेन अल्प्र० (१।२।२४) अव् ।
[ न्यभ्युपवेः ] निश्च अभिश्च उपश्च विश्च = न्यभ्युपवि, तस्मात् । [वार्] वा प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० । [च] च प्रथमा सि ।
[ उत् ] उत् प्रथमा सि । 'दीर्घङ्याब्' ० ( १|४|४५) सिलुक् ।
अभेदनिर्देशः सर्वादेशार्थः । च इति वकारश्रुतेस्तस्यैवादेशः स्यात् न त्वाकारसहितस्येत्यर्थः ।
[ निहव: ] निह्वानं
= निहवः ।
[ अभिहवः ] अभिह्वानं अभिहवः ।
[ उपहव: ] उपह्वानं = उपहवः । [विहवः ] विह्वानं
विहवः ।
वाशब्दस्य उकारश्च । ‘नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्’
-
-
-
Jain Education International
न्यभ्युप-वेर्वाश्चोत् ॥५।३।४२ ॥
[ आङ : ] आङ् पञ्चमी ङसि ।
[ युद्धे ] युद्ध सप्तमी ङि ।
[ प्रह्वाय: ] प्रह्वानं = प्रह्वायः । ‘भावा-ऽकर्त्रीः' (५।३।१८) घञ्० अ । 'आत ऐः कृञ्ञौ' (४।३।५५) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[ निवायः ] 'वांक् गति - गन्धनयो: ' (१०६३) वा । निवानं निवायः । 'भावा - ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् ।
२०९
=
ह्वो हव इत्यनिपातनं किम् ? यङ्लुपि निपातनं मा भूत् तेन - [विजोहवः ] विपूर्व० 'ह्वेग स्पर्धा - शब्दयो:' (९९४) ह्वे । ‘आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । भृशं पुन: पुनर्वा विह्वयति । 'व्यञ्जनादेरेकस्वराद्' ० (३|४|९) यप्र० । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । 'द्वित्वे ह्वः' (४।१।८७) वाशब्दस्य उकारः । द्विः । 'ग-होर्जः' (४|१|४०) ह० → ज० । 'आ-गुणावन्यादेः' (४|१|४८) गु० ओ । विजोहव: (विजोहु) । अनेन अल्प्र० । 'नामिनो' ० ( ४ | ३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । अन्यथा विहव इति स्यात् । 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१)/ सूत्र (१७)) इति न्यायेन यङ्लुबन्तस्यापि अनेन अलि हो हव इति कृते द्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः ॥छ ||
आङो युद्धे ||५|३|४३ ॥
For Private Personal Use Only
www.jainelibrary.org